तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम्
तैलादिदूषितं जीर्णं सच्छिद्रं मलिनं त्यजेत्
यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये
भूषणानि विचित्राणि कल्पयाम्यमरार्चित
गृहाण परम गन्ध कृपया परमेश्वर
जपाक्षतार्कधत्तूरान्विष्णौ नैवार्पयेत्क्वचित्
मालतीपुष्पक चैव नार्पयेत्तु महेश्वरे
शक्तौ दूर्वार्कमन्दारान् गणेशे तुलसीं त्यजेत्
विष्णुक्रान्ता नागवल्ली दूर्वापामार्गदाडिमौ
कदली बदरी धात्री तिन्तिणी बीजपूरकम्
एतेषां तु फलैः कुर्याद्देवतापूजनं बुधः
शुष्कैस्तु नार्चयेद्देवं पत्रैः पुष्पैः फलैरपि
छिन्नभिन्नान्यपि मुने न दूष्याणि जगुर्बुधाः
सर्वदा तुलसी शुद्धा बिल्वपत्राणि वै तथा
छात्रीदलैश्च दूर्वाभिर्नार्चयेज्जगदंबिकाम्
पुष्पपत्रादिकं विप्र यथोत्पन्नं तथार्पयेत्
आघ्रेयं देवदेवेश धूपं भक्त्या गृहाम मे
घृतवर्तिसमायुक्तं गृहाण मम सत्कृतम्
भक्त्या गृहाण मे देव नैवेद्यन्तुष्टिदंसदा
कर्पूरादिसुगन्धाढ्यं यद्दत्तं तद्गृहाण मे
दद्यात्पुष्पाञ्जलिं पश्चात्कुर्यादावरणार्चनम्
सैव प्राची तु विज्ञेया ततो ऽन्या विदिशो दश
नेत्रमग्रे दिक्षु चास्त्रं अङ्गमन्त्रैर्यथाक्रमम्
वराभयकरा ध्येयाः स्वस्वदिक्ष्वं गशक्तयः
सालङ्कारास्ततः पश्चात्सांगाः सपरिचारिकाः
संपूजितास्तर्पिताश्च वरदाः संत्विदं पठेत्
अभीष्टसिद्धिं मे देहि शरणागतवत्सल
इत्युञ्चार्य क्षिपेत्पुष्पाञ्जलिं देवस्य मस्तके
सायुधांस्तत इन्द्राद्यान्स्वस्वदिक्षु प्रपूजयेत्
ईशानो ऽथ विधिश्चैवमधस्तात्पन्न गाधिपः