शालग्रामे स्थापितायां नावाहनविसर्जने
पुष्पाञ्जलिं समादाय ध्यात्वा मन्त्रमुदीरयेत्
अरण्यामिव हव्याशं मूर्तावावाहयाम्यहम्
भक्तिरेवहसमाकृष्टं दीपवत्स्थापयाम्यहम्
रवात्मस्थआय परं शुद्धमासनं कल्पयाव्यहम्
सांनिध्यं कुरु तस्यां त्वं भक्तानुग्राहकारक
यद्यपूर्णं भवेत्कल्पं कतथाप्यभिमुखो भव
मूर्तौं वा यज्ञसंपूर्त्यै स्थितो भव महेश्वर
स्वतेजः पञ्जरेणाशु वेष्टितो भव सर्वतः
तस्मै ते परमेशाय स्वागतं स्वागतं च मे
आगतो देवदेवेशः सुखागतमिदं पुनः
तस्मै मे परणाब्जाय पाद्यं शुद्धाय कल्प्यते
आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे
तापत्रयविनिर्मुक्त्यै तवार्घ्यं कल्पयाम्यहम्
मधुपर्कमिदं देव कल्पयामि प्रसीद मे
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम्
सर्वलोकेषु शुद्धात्मन्ददामि स्नेहमुत्तमम्
सहस्रं वा शतं वापि यथाशक्त्यादरेण च
गन्धपुष्पादिकैरीश मनुनां चाभिषिञ्चेत्
निरावरणविज्ञान वासस्ते कल्पयाम्यहम्
तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम्
तैलादिदूषितं जीर्णं सच्छिद्रं मलिनं त्यजेत्
यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये
भूषणानि विचित्राणि कल्पयाम्यमरार्चित
गृहाण परम गन्ध कृपया परमेश्वर
जपाक्षतार्कधत्तूरान्विष्णौ नैवार्पयेत्क्वचित्
मालतीपुष्पक चैव नार्पयेत्तु महेश्वरे
शक्तौ दूर्वार्कमन्दारान् गणेशे तुलसीं त्यजेत्
विष्णुक्रान्ता नागवल्ली दूर्वापामार्गदाडिमौ
कदली बदरी धात्री तिन्तिणी बीजपूरकम्