प्रोक्तवान्सर्वधर्माश्च पुराणेषु महीपते
पुराणानि महाबुद्धे इहामुत्र सुखाय हि
तस्य स्यान्निर्मला बुद्धिर्भूयो धर्मपरायणः
विष्णुभक्तनृणां भूप धर्मे बुद्धिः प्रवर्त्तते
धर्मार्थकाममोक्षाणां ये फलान्यभिलिप्सवः
अहं तु गौतममुनेः सर्वज्ञाद्रूह्यवादिनः
कदाचित्परमेशस्य पूजां कर्त्तुमहं गतः
स तु शान्तो महाबुद्धिर्गौन्तमस्तेजसां निधिः
यस्त्वर्चितो मया देवः शिवः सर्वजगद्गुरुः
ज्ञानतो ऽज्ञानतो वापि यो ऽवज्ञां कुरुते गुरोः
शुश्रूषां कुरुते यस्तु गुरुणां सादरं नरः
तेन शापेन दग्धो ऽहमन्तश्चैव क्षधाग्निना
एवं वदति विप्रेन्द्र वटस्थे ऽस्मिन्निशाचरे
एतस्मिन्नन्तरे प्रात्पः कश्चिद्विप्रो ऽतिधार्मिकः
वहन्गङ्गाजलं स्कन्धे स्तुवन् विश्वेश्वरं प्रभुम्
तमागतं मुनिं दृष्ट्वा पिशाचीराक्षसौ च तौ
अशक्तास्तं धर्षयितुमिदमूचुश्च राक्षसाः
नामकीर्तनमाहात्म्याद्राक्षसा दूरगावयम्
नामप्रावरणं विप्र रक्षति त्वां महाभययात्
परां शान्तिं समापन्ना महिम्ना ह्यच्युतस्य वै
गङ्गाजलाभिषेकेण पाह्यस्मात्पातकोच्चयात्
स तारयेनगत्सर्वमिति शंसन्ति सूरयः
केनोपायेन लभ्येत मुक्तिः सर्वत्र दुर्लभा
तयैवाकृतपुण्यास्तु तारयन्ति कथं परान्
यथा हि सर्वलोकानामानन्दाय कलानिधिः
तानि सर्वाणि गङ्गायाः कणस्यापि समानिन
गङ्गाजलं पुनात्येव कुलानामेकविंशतिम्
गङ्गाजलप्रदानेन पाह्मस्मान्पापकर्मिणः
निशम्य विस्मया विष्टो बभूव द्विजसतमः
किमु ज्ञानप्रभावाणां महतां पुण्यशालिनाम्