व्यक्ताव्यक्तस्वरुपेण जगह्याप्य व्यवस्थिता
सृष्टिस्थितिविनाशानामेकः कारणतां गतः
तस्मात्परतरो देवो नित्यैत्यभिधीयते
रक्षां करोति यो देवो जगतां परतः पुमान्
तस्मात्परतरं यत्तदव्ययं परमं पदम्
यः परः कालपुपाख्यो योगिध्येयः परात्परः
ज्ञानैकवेद्यः परमः सञ्चिदानन्दविग्रहः
देहीति प्रोच्यते मूढैरहो ऽज्ञानविडम्बनम्
मूर्तित्रयं समापन्नः सृष्टिस्थित्यन्तकारणम्
स एवानन्दरुपात्मा तस्मान्नास्त्यपरो मुने
भिन्नाभिन्नस्वरुपेण स्थितो वै परमेश्वरः
विश्वोत्पत्तेर्निदानत्वात्प्रकृतिः प्रोच्यते बुधैः
प्रकृतिः पुरुषश्चेति कालश्चेति त्रिधा भवेत्
शुद्धं यत्परमं धाम तद्विष्णोः परमं पदम्
गुणरुपीगुणाधारोजगतामादिकृद्विभुः
महान्प्रादुरभूद्धुद्धिस्ततो ऽहं समवर्त्तत
तन्मात्रेभ्यो हि जातानि भूतानि जगतः कृते
यथाक्रमं कारणतामेकैकस्योपयान्ति च
तिर्यग्योनिगताञ्जन्तून्पशुपक्षिमृगादिकान्
ततो वैमानुषं सर्गं कल्पयामास पह्मजः
एभिः पुत्रैरिदं व्याप्तं सदेवासुरमानुषम्
तपश्च सत्यमित्येवं लोकाः सत्योपरि स्थिताः
महातलं च विप्रेन्द्र ततो ऽधच्च रसातलम्
एष सर्वेषु लोकेषु लोकनाथांश्च सृष्टवान्
वर्त्तनादीनि सर्वाणि यथायोग्यंमकल्पयत्
लोकालोकश्च भूम्यन्ते तन्मध्ये सत्प सागराः
बाह्या नद्यश्च विख्याता जनाश्चामरसन्निभाः
क्रौञ्चशाकौ पुष्करश्च ते सर्वे देवभूमयः
लवणेक्षुसुरासर्पिर्दधिक्षीरजलैः समम्
ज्ञेया द्विगुणविस्तरा लोकालोकाञ्च पर्वतात्