सामान्यार्घमिदं प्रोक्तं सर्वसिद्धिकरं नृणाम्
आत्मानं यागवस्तूनि तेन संप्रोक्षयेत्पुथक्
चतुरस्रेण संवेष्ट्य संक्षाल्यार्घोदकेन च
आग्नेयादिषु कोणेषु हृदाद्यङ्गचतुष्टयम्
मूलखण्डत्रयेनाथाधारशक्तिं तु मध्यगाम्
प्रतिष्टाप्य त्रिपदिकां पूजयेन्मनुनामुना
अमुकार्ध्येति पात्रान्ते सनापहृदयोंऽतिमे
स्वमन्त्रक्षालितं शरंवं संस्याप्याय समर्चयेत्
वर्म फट् हृदयं पाञ्चजन्याय हृदयं मनेः
अमुकार्ध्येति पात्रान्ते नमोन्तस्त्र्यक्षिवर्णवान्
ततः शुद्धजलैर्मूलं विलोममातृकां पठन्
ॐ सोममण्डलायेति षोडशान्ते कलात्मने
तत्र षोडशसंख्याका यजेञ्चन्द्रमसः कलाः
गोमुद्रयामृतीकृत्याच्छादयेन्मत्स्ममुद्रया
चिन्तयित्वेष्टदेवं च ततो मुद्राः प्रदर्शयेत्
महामुद्रां योनिमुद्रां दर्शयेत्क्रमतः सुधीः
गन्धपुष्पादिभिस्तत्र पूजयेद्देवतां स्मरनट्
शङ्खाद्दक्षिणदिग्भागे प्रोक्षणीपात्रमादिशेत्
आत्मतत्त्वात्मने हृञ्च विद्यातत्त्वात्मने नमः
प्रोक्षेत्पुष्पाक्षतैश्चापि मण्डलं विधिवत्सुधीः
पाद्यार्ध्याचमनूयार्थं मधुपर्कार्थमप्युत
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्तजलैः स्मृतम्
गन्धदूर्वादलैः प्रोक्तं ततश्चाचमनीयकम्
क्षौद्राज्यदधिसंमिश्रं मधुपर्कसमीरितम्
शङ्करार्कार्चने शङ्खमयेनैव प्रशस्यते
रक्तांबराभयकराध्येयाःस्पुः पीठशक्तयः
विधिना स्थापितायां वा प्रतिमायां प्रपूजयेत्
निर्मिता शुभदा गेहे पूजनाय दिने दिने
स्पष्टां वाप्य न्त्यजाद्यैश्च प्रतिमां नैव पूजयेत्
मूलेन मूर्तिं संकल्प्य ध्यात्वा देवं यथोदितम्