गायत्रीछन्द आख्यातं देवता शारदाभिधा
पद्मचक्रगुणैणांश्च दधतीं च त्रिलोचनाम्
ध्यात्वैवं तारपूर्वां तां न्यसेन्ङन्तकलान्विताम्
हृदयादिचतुर्थ्यन्ते जातीः संयोज्य विन्यसेत्
ततो ध्यात्वेष्टदेवं तं भूषायुधसमन्वितम्
न्यस्याङ्गषट्कं तन्मूर्तौं ततः पूजनमारभेत्
त्रिकोणं चतुरस्रं वा वामभागे प्रकल्प्य च
तत्राग्निमण्डलं चेद्वा पात्रं संक्षाल्य चास्रतः
क्लिममातृका पूलमुञ्चरन्पूरपेज्जलैः
गोमुद्रयामृतीकृत्य कवचेनावगुण्ठयेत्
सामान्यार्घमिदं प्रोक्तं सर्वसिद्धिकरं नृणाम्
आत्मानं यागवस्तूनि तेन संप्रोक्षयेत्पुथक्
चतुरस्रेण संवेष्ट्य संक्षाल्यार्घोदकेन च
आग्नेयादिषु कोणेषु हृदाद्यङ्गचतुष्टयम्
मूलखण्डत्रयेनाथाधारशक्तिं तु मध्यगाम्
प्रतिष्टाप्य त्रिपदिकां पूजयेन्मनुनामुना
अमुकार्ध्येति पात्रान्ते सनापहृदयोंऽतिमे
स्वमन्त्रक्षालितं शरंवं संस्याप्याय समर्चयेत्
वर्म फट् हृदयं पाञ्चजन्याय हृदयं मनेः
अमुकार्ध्येति पात्रान्ते नमोन्तस्त्र्यक्षिवर्णवान्
ततः शुद्धजलैर्मूलं विलोममातृकां पठन्
ॐ सोममण्डलायेति षोडशान्ते कलात्मने
तत्र षोडशसंख्याका यजेञ्चन्द्रमसः कलाः
गोमुद्रयामृतीकृत्याच्छादयेन्मत्स्ममुद्रया
चिन्तयित्वेष्टदेवं च ततो मुद्राः प्रदर्शयेत्
महामुद्रां योनिमुद्रां दर्शयेत्क्रमतः सुधीः
गन्धपुष्पादिभिस्तत्र पूजयेद्देवतां स्मरनट्
शङ्खाद्दक्षिणदिग्भागे प्रोक्षणीपात्रमादिशेत्
आत्मतत्त्वात्मने हृञ्च विद्यातत्त्वात्मने नमः
प्रोक्षेत्पुष्पाक्षतैश्चापि मण्डलं विधिवत्सुधीः