छलगण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया
भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः
श्वेतोरस्को विदारिण्या भृगुः सहजया युतः
संवर्तके महामाया प्रोक्ता श्रीकण्ठमातृका
मुनिःस्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम्
हलो बीजानि चोक्तानि स्वराः शक्तय ईरिताः
बन्धूकस्वर्णवर्णागं वराक्षाङ्कुशपाशिनम्
ध्यात्वैवं शिवशक्तीश्च चतुर्थी हृदयान्तिम्
विघ्नेशश्च ह्रिया युक्तो विघ्नराजः श्रिया युतः
विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती
कान्त्या युक्तो द्विदन्तस्तु कामिन्या गजवक्रकः
दीर्घजिह्वः पार्वतीयुग्ज्वालिन्या शङ्कुकर्णकः
गजेन्दः कामरूपिण्या शूर्पकर्णस्तथोमया
महानन्दश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी
दुमुखो भूतिसंयुक्तः सुमुखो भौतिकीयुतः
द्विजिह्वो महिषीयुक्तो जभिन्या शूरनामकः
वरदो लज्जया वामदेवंशो दीर्घघोणया
सेनानी रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः
मत्तवाहश्चञ्चलया जटी दीप्तिसमन्वितः
वरेण्यश्च शिवायुक्तो भगया वृषकेतनः
मेघनादः सुभगया व्यापी स्यात्कालरात्रियुक्
गणेशमातृकायास्तु गणो मुनिभिरीरितः
षड्दीर्घाढ्येन बीजेन कृत्वाङ्गानि ततः स्मरेत्
पत्न्याश्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेत्
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्ततेधिकाः
सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा
स्मृतिर्मेधा ततः कान्तिर्लक्ष्मीर्द्धृतिः स्थिरा स्थितिः
कामिको वरदा वाथ ह्लादिनी प्रीतिसंयुता
क्षुधा च क्रोधिनी पश्चाक्रियाकारी समृत्युका
उक्ता कलामातृकैवं तत्तद्भक्तः समाचरेत्