बली तु परया युक्तो बलानुजपरायणे
हंसः प्रभासमायुक्तो वराहो निशया युतः
केशवादिमातृकाया मुनिर्नारायणो मतः
चक्राद्यायुधसंयुक्तं कुंभादर्शधरं हरिम्
एवं ध्यात्वा न्यसेच्छक्तिं श्रीकामपुटिताक्षरम्
त्वगंसृङ्मांसमेदो ऽस्थिमज्जाशुक्राण्यसून्वदेत्
एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ
एकं तु रसनामूले ग्रीवायामेकमेव च
टतवर्गौं पादयोस्तु पफौ कुङ्क्षिद्वये न्यसेत्
यादिसप्तापि धातुस्था हं प्राणे लं तथात्मनि
पूर्णोदर्या तु श्रीकण्ठो ह्यनन्तो विजरान्वितः
महेश्वरो वर्तुलाक्ष्याधींशो वै दीर्घघोणया
स्थावरेशो दिर्घजिह्वायुग्धरः कुडोदरीयुतः
सद्यो ज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युतः
क्रोधीशश्चमहाकाल्या चण्डेशेन सरस्वती
त्रैलोक्यविद्यया युक्तो मन्त्रशक्त्यैकरुद्रकः
लम्बोदर्या चतुर्वक्रो ह्यजेशो द्राविणीयुतः
मर्यादया लाङ्गलीशो दारुकेशेन रूपिणी
काकोदर्या तथाषाढी पूतनासंयुक्तो मतः
मीनेशः शङ्खिनीयुक्तो मेषेशस्तर्जयनीयुतः
छलगण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया
भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः
श्वेतोरस्को विदारिण्या भृगुः सहजया युतः
संवर्तके महामाया प्रोक्ता श्रीकण्ठमातृका
मुनिःस्याद्दक्षिणामूर्तिर्गायत्रीछन्द ईरितम्
हलो बीजानि चोक्तानि स्वराः शक्तय ईरिताः
बन्धूकस्वर्णवर्णागं वराक्षाङ्कुशपाशिनम्
ध्यात्वैवं शिवशक्तीश्च चतुर्थी हृदयान्तिम्
विघ्नेशश्च ह्रिया युक्तो विघ्नराजः श्रिया युतः
विघ्नकृत्स्वस्तिसंयुक्तो विघ्नहर्ता सरस्वती