केशवः कीर्तिसंयुक्तः कान्त्या नारायणस्तथा
विष्णुस्तु धृतिसंयुक्तः शान्तियुङ्मधुसूदनः
श्रीधरो मेधया युक्तो हृषीकिशश्च हर्षया
वासुदेवश्च लक्ष्मीयुक् संकर्षणसरस्वती
चक्री जयायुतः पश्चाद्गदी दुर्गासमन्वितः
शङ्खी चण्डासमायुक्तो हली वाणीसमायुतः
पाशी विरजया युक्तो कुशी विश्वासमन्वितः
निन्दी स्मृत्या समायुक्तो नरो वृद्ध्या समन्वितः
कृष्णो बुद्ध्या युतः सत्यो भुक्त्या मुक्त्याथ सात्वतः
भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया
बली तु परया युक्तो बलानुजपरायणे
हंसः प्रभासमायुक्तो वराहो निशया युतः
केशवादिमातृकाया मुनिर्नारायणो मतः
चक्राद्यायुधसंयुक्तं कुंभादर्शधरं हरिम्
एवं ध्यात्वा न्यसेच्छक्तिं श्रीकामपुटिताक्षरम्
त्वगंसृङ्मांसमेदो ऽस्थिमज्जाशुक्राण्यसून्वदेत्
एक मौलौ मुखे चैक द्विक नेत्रे द्विकं श्रुतौ
एकं तु रसनामूले ग्रीवायामेकमेव च
टतवर्गौं पादयोस्तु पफौ कुङ्क्षिद्वये न्यसेत्
यादिसप्तापि धातुस्था हं प्राणे लं तथात्मनि
पूर्णोदर्या तु श्रीकण्ठो ह्यनन्तो विजरान्वितः
महेश्वरो वर्तुलाक्ष्याधींशो वै दीर्घघोणया
स्थावरेशो दिर्घजिह्वायुग्धरः कुडोदरीयुतः
सद्यो ज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युतः
क्रोधीशश्चमहाकाल्या चण्डेशेन सरस्वती
त्रैलोक्यविद्यया युक्तो मन्त्रशक्त्यैकरुद्रकः
लम्बोदर्या चतुर्वक्रो ह्यजेशो द्राविणीयुतः
मर्यादया लाङ्गलीशो दारुकेशेन रूपिणी
काकोदर्या तथाषाढी पूतनासंयुक्तो मतः
मीनेशः शङ्खिनीयुक्तो मेषेशस्तर्जयनीयुतः