अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्यंबकेण तु
क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः
शैवं शाक्तस्त्रिकोणा भं नारीवद्वा समाचरेत्
आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत्
सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत्
आदाय वामहस्तेंऽबु दक्षेणाच्छाद्य पाणिना
मूलेन तस्मात् श्चोतद्भिर्बिन्दुभिस्तत्त्वमुद्रया
कृत्वा तदक्षरं मन्त्री नासिकान्तिकमानयेत्
प्रक्षाल्यान्तर्गतं तेन कल्मषं तज्जलं पुनः
क्षिपेदस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले
ततश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्य मन्त्रवित्
प्रक्षिप्यार्घं प्रदद्याद्वै मूलान्तैर्मन्त्रमुच्चरन्
दत्त्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत्
अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत्
कृष्णाजिनांबरां ब्राह्मीं ध्यायेत्ताराङ्किते ऽम्बरे
शुक्लांबरां वृषारूढां त्रिनेत्रां रविबिंबगाम्
सायाह्ने रत्नभूषाढ्यां पीतकौशेयवाससाम्
गदापद्मधरां देवीं सूर्यासनकृताश्रयाम्
तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः
सायुधं वैनतेयं संतर्पयामीति तर्पयेत्
विष्वक्सेन च शैलेयं वैष्णवः परितर्पयेत्
पूजागारं समागत्य प्रक्षाल्याङ्घ्री उपस्पृशेत्
पूजास्थलं समागत्य द्वारपूजां समाचरेत्
सरस्वतीं वामभागे दक्षे विघ्नेश्वरं पुनः
वामे च यमुनां दक्षे धातारं वामतस्तथा
द्वारपालांस्ततो ऽभ्यर्चेत्तत्तत्कल्पोदितान्सुधीः
भद्रः सुभद्रश्चेत्याद्या वैष्णवा द्वारपालकाः
वृषभश्च महाकालः शैवा वै द्वारपालकाः
सेंदुः स्वनामाघर्णाद्या ङेनमोंता इमे स्मृताः
दिव्यान्तरिक्षभौमांश्च विघ्नानुत्सार्य यत्नतः