हृषीकेशपद्मनाभाभ्यां स्पृशेञ्चरणौ ततः
वासुदेवेन प्रद्युम्नेन स्पृशेन्नासिके ततः
अधोक्षजनृसिंहाभ्यां श्रवणे संस्पृशेत्तथा
हरिणा विष्णुनांसौ च वैष्णवाचमनं त्विदम्
मुखे नसोः प्रदेशिन्यानामया नेत्रकर्णयोः
आत्मविद्याशिवैस्तत्त्वैः स्वाहान्तैः शैवमीरितम्
आत्मविद्यासिवैरेव शैवं स्वाहावसानिकैः
वाग्लज्जाश्रीमुखैः प्रोक्तं द्विजाचमनमर्थदम्
नन्दकं हृदये शङ्खचक्रे चैव भुजद्वये
कर्णमूले पार्श्वयोश्च पृष्टे नाभौ ककुद्यपि
अग्निहोत्रोद्भवं भस्म गृहीत्वा त्र्यंबकेण तु
क्रमात्तत्पुरुषाघोरसद्योजातादिनामभिः
शैवं शाक्तस्त्रिकोणा भं नारीवद्वा समाचरेत्
आचम्य विधिवन्मन्त्री तीर्थान्यावाह्य पूर्ववत्
सप्तधा तज्जलेनाथ मूर्द्धानमभिषेचयेत्
आदाय वामहस्तेंऽबु दक्षेणाच्छाद्य पाणिना
मूलेन तस्मात् श्चोतद्भिर्बिन्दुभिस्तत्त्वमुद्रया
कृत्वा तदक्षरं मन्त्री नासिकान्तिकमानयेत्
प्रक्षाल्यान्तर्गतं तेन कल्मषं तज्जलं पुनः
क्षिपेदस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले
ततश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्य मन्त्रवित्
प्रक्षिप्यार्घं प्रदद्याद्वै मूलान्तैर्मन्त्रमुच्चरन्
दत्त्वार्घं त्रिरनेनाथ देवं रविगतं स्मरेत्
अष्टांविंशतिवारं वा गुह्येतिमनुनार्पयेत्
कृष्णाजिनांबरां ब्राह्मीं ध्यायेत्ताराङ्किते ऽम्बरे
शुक्लांबरां वृषारूढां त्रिनेत्रां रविबिंबगाम्
सायाह्ने रत्नभूषाढ्यां पीतकौशेयवाससाम्
गदापद्मधरां देवीं सूर्यासनकृताश्रयाम्
तर्पयित्वा स्वेष्टदेवं तर्पयेत्कल्पमार्गतः
सायुधं वैनतेयं संतर्पयामीति तर्पयेत्