विलिप्यपादपर्यन्तं क्षालयेत्तीर्थवारिणा
प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च
कृत्वाङ्गुल्या गाङ्गमृगमादायास्त्रेण तत्पुनः
तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेत्
विभाव्येष्टमयं सर्वमान्तरं स्नानमाचरेत्
मन्त्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम्
तया संक्षालयेत्सर्वमन्तर्द्देहगतं मलम्
ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः
देशकालौ च संकीर्त्य प्राणायामषडङ्गकैः
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः
तेन सत्येन मे देव देहि तीर्थं दिवाकर
नर्मदे सिंधुकावेरि जले ऽस्मिन्संनिधिं कुरु
गोमुद्रयामृतीकृत्य कवचेनावगुण्ठ्य च
वह्न्यर्केन्दुमण्डलानि तत्र संचितयेद्रुधः
मूलेन चैकादशधा तत्र संमन्त्र्य भावयेत्
स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः
आधारः सर्वभातानां विष्णोरतुलतेजसः
इति नत्वा समारुन्ध्य सप्तच्छिद्राणि साधकः
निमज्ज्योन्मज्ज्य त्रिश्चैवं सिंचेत्कं कुंभमुद्रया
चत्वारो मनवस्ते ऽत्र कथ्यन्ते तान्त्रिका मुने
मातरः सर्वभूतानामापो देव्यः पुनन्तु माम्
क्षालयन्ति च तां स्पर्शादापो देव्यः पुनन्तु माम्
ललाटे कर्णयोरक्ष्णोरापस्तद्धन्तु वो नमः
सन्तोषः क्षान्तिरास्तिक्यं विद्या भवतु वो नमः
पिबेद्धिरुद्धं नो कुर्यादेषां तु नियतो विधिः
स्वेष्टदेवं समुद्वास्य मन्त्री मार्तण्डमण्डले
वाससी परिधायाथ कुर्यात्सन्ध्यादिकं सुधीः
अथवा भस्मना स्नातो रजोभिश्चैव वाक्षमः
केशवेन तथा नारायणेन माधवेन च
मधुसूदनत्रिविक्रमाभ्यामोष्ठौ च मार्जयेत्