करयोः सप्त वै दद्यात्रित्रिवरं च पादयोः
कृत्वा वनस्पतिं चाथ प्रार्थयेन्मनुनामुना
श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते
गृहीत्वा काममन्त्रेण कुर्यान्मन्त्री समाहितः
हृदन्तः कामबीजाढ्यं दन्तांश्चानेन शोधयेत्
देवागारं ततो गत्वा निर्माल्यमपसार्य च
अस्रेण पात्रं संप्रोक्ष्य मूलेन ज्वालयेञ्च तम्
सुगोघृतप्रदीपेन भ्रामितेन समन्ततः
इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरम्
गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय वै
विलिप्यपादपर्यन्तं क्षालयेत्तीर्थवारिणा
प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च
कृत्वाङ्गुल्या गाङ्गमृगमादायास्त्रेण तत्पुनः
तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेत्
विभाव्येष्टमयं सर्वमान्तरं स्नानमाचरेत्
मन्त्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम्
तया संक्षालयेत्सर्वमन्तर्द्देहगतं मलम्
ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः
देशकालौ च संकीर्त्य प्राणायामषडङ्गकैः
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः
तेन सत्येन मे देव देहि तीर्थं दिवाकर
नर्मदे सिंधुकावेरि जले ऽस्मिन्संनिधिं कुरु
गोमुद्रयामृतीकृत्य कवचेनावगुण्ठ्य च
वह्न्यर्केन्दुमण्डलानि तत्र संचितयेद्रुधः
मूलेन चैकादशधा तत्र संमन्त्र्य भावयेत्
स्नापयित्वार्चयेत्तां च मानसैरुपचारकैः
आधारः सर्वभातानां विष्णोरतुलतेजसः
इति नत्वा समारुन्ध्य सप्तच्छिद्राणि साधकः
निमज्ज्योन्मज्ज्य त्रिश्चैवं सिंचेत्कं कुंभमुद्रया
चत्वारो मनवस्ते ऽत्र कथ्यन्ते तान्त्रिका मुने