एकविंशतिसाहस्रप्रमितस्य जपस्य च
संकल्पेन मोक्षदाता विष्णुर्मे प्रीयतामिति
ब्रह्मैवाहं न संसारी नित्यमुक्तो न शोकभाक्
ततः समाचरेद्देहकृत्यं देवार्चनं तथा
तद्धिधानं प्रवक्ष्यामि सदाचारस्य लक्षणम्
समुद्रमेखले देवि पर्वतस्तनमण्डले
इति भूमिं तु संप्रार्थ्य विहरेञ्च यथाविधि
गच्छन्तु ऋषयो देवाः पिशाचा ये च गुह्यकाः
इति तालत्रयं दत्वा शिरः प्रावृत्य वाससा
मलं विसृज्य सौचं तु मृदाद्भिः समुपाचरेत्
करयोः सप्त वै दद्यात्रित्रिवरं च पादयोः
कृत्वा वनस्पतिं चाथ प्रार्थयेन्मनुनामुना
श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पते
गृहीत्वा काममन्त्रेण कुर्यान्मन्त्री समाहितः
हृदन्तः कामबीजाढ्यं दन्तांश्चानेन शोधयेत्
देवागारं ततो गत्वा निर्माल्यमपसार्य च
अस्रेण पात्रं संप्रोक्ष्य मूलेन ज्वालयेञ्च तम्
सुगोघृतप्रदीपेन भ्रामितेन समन्ततः
इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरम्
गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय वै
विलिप्यपादपर्यन्तं क्षालयेत्तीर्थवारिणा
प्रविश्य नाभिमात्रे तु मृदं वामकरस्य च
कृत्वाङ्गुल्या गाङ्गमृगमादायास्त्रेण तत्पुनः
तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेत्
विभाव्येष्टमयं सर्वमान्तरं स्नानमाचरेत्
मन्त्रमूर्तिं प्रभुं स्मृत्वा तत्पादोदकसंभवाम्
तया संक्षालयेत्सर्वमन्तर्द्देहगतं मलम्
ततः श्रौतोक्तविधिना स्नात्वा मन्त्री समाहितः
देशकालौ च संकीर्त्य प्राणायामषडङ्गकैः
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः