त्वत्प्रसादादहं देव कृताकृत्यो ऽस्मि सर्वतः
इति स्तुत्वा ततः सर्व गुरवे विनिवेदयेत्
यत्करोमि जगन्नाथ तदस्तु तव पूजनम्
क्षालितं निजमात्मानं लिर्मलं भावयेत्सुधीः
मूलाधारादधो भागे वर्तुलं वायुमण्डलम्
त्रिकोणं मण्डलं वह्नेस्तत्रस्थवह्निबीजतः
प्रसुप्तभुजगाकारां स्वयंभूलिङ्गवेष्टिनीम्
कुलकुण्डलिनीं ध्यात्वा कूर्चेनोत्थापयेञ्च ताम्
गुरुपदिष्टविधिना ब्रह्मरन्ध्रं नयेत्सुधीः
तत्प्रभापटलव्याप्तैविमलं चिन्मयं परम्
दृष्ट्वा च मानसैर्द्रव्यैः प्रार्थयेन्मनुनामुना
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रां त्वनुवर्तयिष्ये
तततः कुर्यात्सर्वसिद्ध्यै त्वजपाया निवेदनम्
अजपाख्यां तु गायत्रीं जीवोजपति सर्वदा
देवता परमोहंसश्चाद्यन्ते बीजशक्तिकम्
निराभासश्च धर्मश्च ज्ञानं चेति तथा पुनः
जातयुक्तान्साधकेन्द्र षडङ्गेषु नियोजयेत्
सकारस्तादृशश्चैव प्रवेशे ध्यानमीरितम्
मूलाधारे वादिसांतबीजयुक्ते चतुर्दले
पाशाङ्कुशसुधापात्रमोदकोल्लासपाणये
स्वाधिष्टाने विद्रुमाभे वादिलान्तार्णसंयुते
स्रुवाक्षमालालसितबाहवे पद्मजन्मने
विद्युल्लसितमेघाभे डादिफआन्तार्णपत्रके
सश्रिये षट्सहस्रं च विष्णवे विनिवेदयेत्
शुक्ले शूलाभयवरसधाकलशधारिणे
वृषारूढाय रुद्राय षट्सहस्रं निवेदयेत्
महाज्योतिप्रकाशायेन्द्रियाधिपतये ततः
आज्ञाचक्रे हक्षयुक्ते द्विदिले ऽब्जे सहस्रकम्
सहस्रारे महापद्मे नादबिन्दुद्वयान्विते
प्ररमाद्ये च गुरवे सहस्रं विनिवेदयेत्