वेद्यां संवेश्य संप्रोक्ष्य प्रोक्षणीस्थेन वारिणा
न्यासजालेन संशोध्य मूर्ध्नि विन्यस्य पल्लवान्
अभिषिञ्चेत्प्रियं शिष्यं जपन्मूलमनुं हृदि
गुरुं प्रणम्य विधिवत्संविशेत्पुरतः शुचिः
जपेदष्टोत्तरशतं देयमन्त्रं विधानतः
ततः सचन्दनं हस्तं दत्वा शिष्यस्य मस्तके
संप्राप्तविद्यः शिष्यो ऽपि निपतेद्गुरुपादयोः
कीर्तिश्रीकान्तिपुत्रायुर्बलारोग्य सदास्तु ते
दद्याञ्च दक्षिणां तस्मै वित्तशाठ्यविवर्जितः
देहपुत्रकलत्रैश्च गुरुसेवापरो भवेत्
अग्निनैरृतिवागीशान् क्रमेण परिपीजयेत्
रविं शिवां शिवं चैव यदा मध्ये तु शङ्करम्
ईशं विघ्नार्कगोविन्दान्मध्ये चेद्गणनायकम्
गणेषं विष्णुमंबां च शिवं चेति यथाक्रमम्
ब्राह्मे मुहूर्त्ते ह्युत्थाय कृत्वाचा वश्यकं बुधः
सहस्रदलशुक्लाब्जकार्ंणकास्थदुमण्डले
द्विनेत्रं द्विभुजं शुक्लगन्धमाल्यानुंलेपनम्
आराध्य पादुकामन्त्रं दशधाप्रजपेत्सुधीः
हसक्षमलवार्यग्निवामकर्णैदुयुग्मरुत्
सहक्षमलतोयाग्निचन्द्रशान्तियुतो मरुत्
देव्यंबान्ते श्रीपान्दुकां पूजयामि हृदन्तिमे
गुह्येति च समर्प्याथ मन्त्रैरेतैर्नमेत्सुधीः
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः
यस्य वागमृतं हॄन्ति विषं संसारसंज्ञकम्
ॐ नमस्ते नाथ भगवान् शिवाय गुरुरूपिणे
नवाय तनरूपाय परमार्थैकरूपिणे
स्ततन्त्राय दयाकॢप्तविग्रहाय शिवात्मने
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम्
पुरस्तात्पार्श्वयोः पृष्टे नमस्तुभ्यमुपर्यधः