तत्तदाग्नेयकोष्टेषु तत्तत्पञ्चममक्षरम्
नामाद्यक्षरमारभ्य यावन्मन्त्रादि वर्णकम्
प्रादक्षिण्यात्तद्द्वितीयं साध्याख्यं परिकीर्तितम्
द्वयोर्वर्णावेककोष्टे सिद्धसिद्धेति तन्मतम्
तृतीये तत्सुसिद्धः स्यात्सिद्धारिस्तञ्चतुर्थके
चतुष्के चेत्तदा पूर्वं यत्र नामाक्षरं स्थितम्
साध्यसिद्धः साध्यसाध्यस्तत्सुसिद्धश्च तद्रिप्रुः
तदा पूर्वोक्तरीत्या तु क्रमाद्द्वेयं मनीषिभिः
तुरीये चेञ्चतुष्के तु तदैवं गणयेत्सुधीः
रिद्धसिद्धो यथोक्तेन द्विगुणात्सिद्धिसाध्यकः
द्विगुणात्साध्यसिद्धस्तु साध्यसाध्यो विलंबतः
सुसिद्धसिद्धोर्द्धतया तत्साध्यो द्विगुणाज्जपात्
अरिसिद्धस्तु पुत्रध्नो ऽरिशाध्यः कन्यकापहः
अन्ये ऽप्यत्र प्रकारा हि संति वै बहवों मुने
एवं संशोध्य मन्त्रं तु शुद्धे काले स्थले तथा
नित्यकृत्यं विधायाथ प्रणम्यगुरुपादुकाम्
संपूज्य वस्त्रालङ्कारगोहिरण्यधरादिभिः
गुरुः शिष्येण सहितः शुचिर्यागगृहं विशेत्
दिव्यानुत्सारयेद्विघ्नान्नभस्थानर्च्य वारिणा
वर्णकैः सर्वतोभद्रे यथोक्तपरिकल्पिते
अस्त्रप्रक्षालितं कुंभं यथाशक्ति विनिर्मितम्
विलोममातृकामूलमुञ्चरन् शुद्धवारिणा
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी
वह्नेर्दश कलाः प्रोक्ताः प्रोच्यन्ते ऽथ रवेः कलाः
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा
पूषा तुष्टिश्च पुष्टिश्च रतिश्च धृतिसंज्ञिकाः
पूर्णापूर्णामृता चेति प्रोक्ताश्चन्द्रमसः कलाः
नवरत्नानि निक्षिप्य विन्यसेत्पञ्चपल्लवान्
मुक्तामाणिक्यवैडूर्यगोमेदान्वज्रविद्रुमौ
एवं रत्नानि निक्षिप्य तत्रावाह्येष्टदेवताम्