पञ्चषषअट्यर्णमारभ्य नवनन्दाक्षरावधि
त्रयोदशार्णा ये मन्त्रास्तिथ्यर्णाश्च तथा पुनः
शतं सार्द्धशतं वापि शतद्वयमथापि वा
ये मन्त्रा वर्णसंख्याका निःस्नेहास्ते प्रकीर्तिताः
अतिवृद्धाः प्रयोगेषु शिथिलास्ते समीरिताः
तद्वर्द्ध्वं चैव ये मन्त्राः स्तोत्ररूपास्तु ते स्मृताः
दोषानेतानविज्ञाय मन्त्रानेताञ्जपन्ति ये
छिन्नादिदोषदुष्टानां मन्त्राणां साधनं ब्रुवे
यं कञ्चिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः
योनिमुद्राबन्ध एवं भवेदासनमुत्तमम्
तदग्रे सरहस्यं ते कथयिष्यामि नारद
गुर्वनुज्ञारतः श्रीमानभिषेकसमन्वितः
मन्त्रतन्त्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः
तत्त्वनिष्कासने दक्षो विनयी च सुवेषवान्
नित्यानुष्टानसंयुक्तस्त्वाचार्यः परिकीर्तितः
शमादिसाधनोपेतः श्रद्धावान् सुस्थिराशयः
दृढव्रतसमाचारः कृतज्ञः पापभीरुकः
एवंविधो भवेच्छिष्यस्त्वन्यथा गुरुदुःखदः
प्राक्प्रत्यग्दक्षिणोदक्चपञ्चसूत्राणि पातयेत्
तत्राद्यप्रथमे त्वाद्यं द्वितीयाद्ये द्वितीयकम्
तत्तदाग्नेयकोष्टेषु तत्तत्पञ्चममक्षरम्
नामाद्यक्षरमारभ्य यावन्मन्त्रादि वर्णकम्
प्रादक्षिण्यात्तद्द्वितीयं साध्याख्यं परिकीर्तितम्
द्वयोर्वर्णावेककोष्टे सिद्धसिद्धेति तन्मतम्
तृतीये तत्सुसिद्धः स्यात्सिद्धारिस्तञ्चतुर्थके
चतुष्के चेत्तदा पूर्वं यत्र नामाक्षरं स्थितम्
साध्यसिद्धः साध्यसाध्यस्तत्सुसिद्धश्च तद्रिप्रुः
तदा पूर्वोक्तरीत्या तु क्रमाद्द्वेयं मनीषिभिः
तुरीये चेञ्चतुष्के तु तदैवं गणयेत्सुधीः
रिद्धसिद्धो यथोक्तेन द्विगुणात्सिद्धिसाध्यकः