आद्यन्तमध्ये फट्कारः षोढा यस्मिन्प्रदृश्यते
कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः
षड्वर्णो बीजहीनो वा सार्द्धसप्ताक्षरो ऽपि वा
सार्द्धबीजत्रययुतो मन्त्रो विंशतिवर्णवान्
यो मन्त्रो दन्तवर्णस्तु मोहितः स तु कीर्तितः
क्षुधार्तः स तु विज्ञेयो मन्त्रसिद्धिविवर्जितः
त्रयोर्विंशतिवर्णो वा स मनुर्दृप्तसंज्ञकः
एकोन त्रिंशदर्णो वा मन्त्रो हीनाङ्गकः स्मृतः
अतिक्रूरः स विज्ञेयो ऽखिलकर्मसु गर्हितः
व्रीडितः स तु विज्ञेयः सर्वकर्मसु न क्षमः
पञ्चषषअट्यर्णमारभ्य नवनन्दाक्षरावधि
त्रयोदशार्णा ये मन्त्रास्तिथ्यर्णाश्च तथा पुनः
शतं सार्द्धशतं वापि शतद्वयमथापि वा
ये मन्त्रा वर्णसंख्याका निःस्नेहास्ते प्रकीर्तिताः
अतिवृद्धाः प्रयोगेषु शिथिलास्ते समीरिताः
तद्वर्द्ध्वं चैव ये मन्त्राः स्तोत्ररूपास्तु ते स्मृताः
दोषानेतानविज्ञाय मन्त्रानेताञ्जपन्ति ये
छिन्नादिदोषदुष्टानां मन्त्राणां साधनं ब्रुवे
यं कञ्चिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः
योनिमुद्राबन्ध एवं भवेदासनमुत्तमम्
तदग्रे सरहस्यं ते कथयिष्यामि नारद
गुर्वनुज्ञारतः श्रीमानभिषेकसमन्वितः
मन्त्रतन्त्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः
तत्त्वनिष्कासने दक्षो विनयी च सुवेषवान्
नित्यानुष्टानसंयुक्तस्त्वाचार्यः परिकीर्तितः
शमादिसाधनोपेतः श्रद्धावान् सुस्थिराशयः
दृढव्रतसमाचारः कृतज्ञः पापभीरुकः
एवंविधो भवेच्छिष्यस्त्वन्यथा गुरुदुःखदः
प्राक्प्रत्यग्दक्षिणोदक्चपञ्चसूत्राणि पातयेत्
तत्राद्यप्रथमे त्वाद्यं द्वितीयाद्ये द्वितीयकम्