पिशाचयोनिमद्यैव याहि पुत्रसमन्विता
क्षुधार्ता सुस्वरं भीमारुरोदापत्यसंयुता
जग्मतुर्नर्मदातीरे वनं राक्षससेवितम्
तत्रास्ते दुःखसंतत्पः कश्चिल्लोकविरोधकृत्
उवाच क्रोधबहुलो वटस्थो ब्रह्मराक्षसः
ईदृशौ केन पापेन जातौ मे ब्रुवतां ध्रुवम्
सर्वं निवेदयित्वास्मै पश्चादेतदुवाच ह
सख्युर्ममाति स्नेहेन तत्सर्वं वक्तुमर्हसि
स हि पापपालं भुङ्क्ते यातनास्तु युगायुतम्
तस्मान्मित्रेषु मतिमान्न कुर्याद्वंयनं कदा
उवाच प्रीतिमापन्नो धर्मवाक्यानि नारद
सोमदत्त इति ख्यातो नान्मा धर्मपरायणः
औदासीन्यं गुरोः कृत्वा प्रात्पवानीदृशीं गतिम्
मया तु भक्षिता विप्राः शतशो ऽथ सहस्रशः
जगत्रासकरो नित्यं मांसाशनपरायणः
मयानुभूतमेतद्धि ततः श्रीमान्न चाचरेत्
तद्वदस्व सरवे सर्वं परं कौतूहलं हि मे
यातानहं कथयिष्यामि शृणुष्वैकमनाः सरवे
शास्त्रवक्ता धर्मवक्ता नीतिशास्त्रोपदेशकः
व्रतोपदेशकश्चैव भयत्रातान्नदो हि च
उपनेता निषेक्ता च संस्कर्त्ता मित्रसत्तम
एते हि गुरवः प्रोक्ताः पूज्या वन्द्यश्च सादरम्
तुल्याः सर्वे ऽप्युत सरवे तद्यथावद्धि ब्रूहि मे
गुरुमाहात्म्यकथनं श्रवणं चानुमोदनम्
एते समानपूजार्हाः सर्वदा नात्र संशयः
अध्यापकाश्च वेदानां मन्त्रव्याख्याकृतस्तथा
यः पुराणानि वदति धर्मयुक्तानि पणडितः
देवपूजार्हकर्माणि देवतापूजने फलम्
सर्ववेदार्थसाराणि पुराणानीति भूपते
यः संसारार्णत्वं तर्त्तुमुद्योगं कुरुते नरः