छिन्नादिदोषयुक्तास्ते नैव रक्षन्ति साधकम्
कर्महीनो नेत्रहीनः कीलितः स्तंभितस्तथा
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः
कुमारो ऽथ युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा
सत्त्वहीनः केकरश्च बीजहीनश्च धृमितः
अङ्गहीनो ऽतिक्रुद्धश्चातिक्रूरे व्रीडितस्तथा
अतिवृद्धो ऽतिनिःस्नेहः पीडितश्च तथा पुनः
संयुक्तं वा वियुक्तं वा त्रिधा वा स्वरसंयुतम्
चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः
स तु रुद्धो मनुज्ञेयो ह्यतिक्लशेन सिद्धिदः
शक्तिहीनः स विज्ञेयश्चिरकालफवप्रधः
असौ पराङ्मुखो ज्ञेयो भजतां चिरसिद्धिदः
स मन्त्रो बधिरः प्रोक्तः कष्टेनाल्पफलप्रदः
नेत्रहीनस्तु विज्ञेयः क्लेशेनापि न सिद्धिदः
हंसेंदुर्वा सकारो वा फकारो वर्म वा पुन
एवं मध्ये द्वयं मूर्घ्नि यस्मिन्नस्रलकारकौ
अग्निः पवनसंयुक्तो मनोर्यस्य तु मूर्द्धनि
अस्रं द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्दृश्यते ऽक्षरेः
हकारः शक्तिरथवा भीतो मन्त्रः स एव हि
मलिनस्तु स विज्ञेयो ह्यतिक्लेशेन सिद्धिदः
अस्रं चास्ति स मन्त्रस्तु तिरस्कृत उदीरितः
यस्य स्याद्भेदितो मन्त्रस्त्याज्यः क्लिष्टफलप्रदः
विद्या वाप्यथवा मन्त्रो भवेत्सप्तदशाक्षरः
यस्य मध्ये स्थितं चास्रं स मन्त्रो मूर्च्छितः स्मृतः
मन्त्रस्यादौ च मध्ये च मूर्ध्नि चास्रचतुष्टयम्
पुनर्विशतिवर्णो वा यो मन्त्रः स्मरसंयुतः
सप्तार्णो बालमन्त्रस्तु कुमारो वसुवर्णवान्
त्रिंशद्वर्णश्चतुःषष्टिवर्णश्चापि शताक्षरः
नवार्णस्तारसंयुक्तो मन्त्रो निस्त्रिंश उच्यते
शिखा वर्म च यस्यान्ते नेत्रमस्रं च दृश्यते