नित्यं नैमित्तिकं दीक्षां प्राप्य यो नाचरेन्नरः
तस्मात्तु दीक्षितः कुर्य्यान्नित्यनैमित्तिकादिकम्
नित्यनैमित्तिकाचार पालकस्य नरस्य तु
तत्रापि गुरुभक्तस्य गतिर्भवति नान्यथा
दृष्टाद्यर्थतया यस्य गुरुभक्तिस्तु कृत्रिमा
कायेन मनसा वाचा गुरुभक्तिपरस्य च
गुरुभक्तियुते शिष्ये सर्वस्वविनिवेदके
मिथ्याप्रयुक्तमन्त्रस्तु प्रायाश्चित्ती भवेद्गुरुः
दीक्षाविधिं प्रवक्ष्यामि मन्त्रसामर्थ्यदायकम्
अतो दीक्षेति सा प्रोक्ता सर्वागमविशारदैः
मननात्राणधर्मत्त्वान्मन्त्र इत्यभिधीयते
स्त्रीमन्त्रास्तु द्विठान्ताः स्युः पुंमन्त्रा हुंफडन्तकाः
पुन्दैवतास्तु मन्त्रा स्युर्विद्याः स्त्रीदैवता मताः
तारान्त्यरेफः स्वाहास्तु तत्राग्नेयाः समीरिताः
अग्नीषोमात्मका ह्येवं मन्त्रा ज्ञेया मनीषिभिः
सौमयाश्चैव प्रबुध्यन्ते वामे वहति मारुतेः
स्वापकाले तु मन्त्रस्य जपो ऽनर्थफलप्रदः
अनुलोभे बिन्दुयुक्तान्विलोभे सर्गसंयुतान्
अनया मालया जप्तो दुष्टमन्त्रो ऽपि सिद्ध्यति
शान्तज्ञानेतिरौद्रेयशान्तिजाति समन्वितः
छिन्नादिदोषयुक्तास्ते नैव रक्षन्ति साधकम्
कर्महीनो नेत्रहीनः कीलितः स्तंभितस्तथा
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः
कुमारो ऽथ युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा
सत्त्वहीनः केकरश्च बीजहीनश्च धृमितः
अङ्गहीनो ऽतिक्रुद्धश्चातिक्रूरे व्रीडितस्तथा
अतिवृद्धो ऽतिनिःस्नेहः पीडितश्च तथा पुनः
संयुक्तं वा वियुक्तं वा त्रिधा वा स्वरसंयुतम्
चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः
स तु रुद्धो मनुज्ञेयो ह्यतिक्लशेन सिद्धिदः