मलकर्मादिपाशेन कश्चिदात्मा नियन्त्रितः
अथ तत्राहृतैर्मात्रा पानान्नाद्यैश्च पोषितः
दुःखाद्यः पीडितश्चैवाच्छन्नदेहो जरायुणा
स्मरंस्तिष्टति दुःखात्मापीड्यमानो मुहुर्मुहुः
संपीडितो निःसरति योनियन्त्रादवाङ्मुखः
ततः क्रमेण स शिशुर्वर्धमानो दिनेदिने
एवं क्रमेण लोके ऽस्मिन्देहिनां देहसंभवः
यस्तारयति नात्मानं तस्मात्पापतरो ऽत्र कः
पश्वादीनां च सर्वेषां च सर्वेषां साधारणमितीरितम्
मनुष्याणामयं धर्मः रवबन्धच्छेदनात्मकः
अतो बन्धनविच्छित्त्यै मन्त्रदीक्षां समाचरेत्
शुद्धात्मतत्त्वनामासौ निर्वाणपदमश्नुते
यजते शिवं मन्त्रैश्च रवपरेषां हिताय सः
शिवशक्त्यादिभिः सार्द्धं पश्यत्यात्मगतावृत्तिः
न प्रकाशयितुं शक्ता पाशत्वान्निगडादिवत्
अतः शास्त्रोक्तविधिना मत्रदीक्षां समाचरेत्
अनुष्टानं प्रकुर्वीत नित्यनमित्तिकात्मकम्
यो यस्मिन्नाश्रमे तिष्टन्दीक्षां प्राप्नोति मानवः
कृतान्यपि न कर्माणि बन्धनाय भवन्ति हि
दीक्षितो ऽभिलषेद्भोगान्यद्यल्लोकगतानसौ
नित्यं नैमित्तिकं दीक्षां प्राप्य यो नाचरेन्नरः
तस्मात्तु दीक्षितः कुर्य्यान्नित्यनैमित्तिकादिकम्
नित्यनैमित्तिकाचार पालकस्य नरस्य तु
तत्रापि गुरुभक्तस्य गतिर्भवति नान्यथा
दृष्टाद्यर्थतया यस्य गुरुभक्तिस्तु कृत्रिमा
कायेन मनसा वाचा गुरुभक्तिपरस्य च
गुरुभक्तियुते शिष्ये सर्वस्वविनिवेदके
मिथ्याप्रयुक्तमन्त्रस्तु प्रायाश्चित्ती भवेद्गुरुः
दीक्षाविधिं प्रवक्ष्यामि मन्त्रसामर्थ्यदायकम्
अतो दीक्षेति सा प्रोक्ता सर्वागमविशारदैः