महत्तत्तवादहॄङ्कारो जातः संरंभवृत्तिमान्
सत्त्वा द्विगुणभेदेन स पुनस्त्रिविधो भवेत्
तत्र तैजसतो ज्ञानेन्द्रियाणि मनसा सह
राजसाञ्च क्रियाहेतोस्तथा कर्मेन्द्रियाणि तु
इच्छारूपं च संकल्पव्यापारं तत्र वै मनः
बहिः करणभावेन स्वोचितेन यतः सदा
करोत्यन्तःस्थितं भूयस्ततो ऽन्तः करणं मनः
इच्छासंरंभबोधाख्या वृत्तयः क्रमतो ऽस्य तु
ग्राह्याश्च विषया ह्येषां ज्ञेयाः शब्दादयो मुने
वाक्पाणिपादपायूपस्थास्तु कर्मेन्द्रियाण्यपि
करणानि च सिद्धिना न कृतिः करणैर्विना
चेष्टन्ते कार्यमालंब्य विभुत्वात्करणानि तु
तेभ्यो भूतान्येकगुणान्याख्यातानि भवन्ति हि
रूपं त्रिषु रसश्चैव द्वयोर्गन्धः क्षितौ तथा
पाकश्च संग्रहश्चैव धारणं चेति कथ्यते
भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा
गन्धः क्षितावसुरभिः सुरभिश्च प्रकीर्तितः
भूतस्य तु विशेषो ऽयं विशेषरहितं तु तत्
पञ्चभूतात्मकं सर्वं जगत्स्थावरजङ्गमम्
देहे ऽस्थिमांसकेशत्वङ्नखदन्ताश्च पार्थिवाः
हृदि पङ्क्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात्
वियत्सर्वासु नाडीषु गर्भवृत्यनुषङ्गतः
प्रत्यात्मनियतं भोगभेदतो व्यवसीयते
देहेषु कर्मवशतः सर्वेषु विचरन्ति हि
अशुद्धाध्वामतो ह्येष धरण्यादिकलावधिः
स्थावरा गिरिवृक्षाद्या जङ्गमस्त्रिविधः पुनः
चराचरेषु लक्षाणां चतुराशीतियोनयः
प्राप्नोति कर्मवशतः परं सर्वार्थसाधकम्
महापुण्यवशेनैव जनिर्भवति दुर्लभा
बिन्दुरेकः प्रविशति यदा गर्भे द्वयात्मकः