पतिरेव परो बन्धुः परमं जीवनं मम
त्रायस्व बन्धुरहितां बालापत्यां जनेश्वर
दुहिताहं भगवतस्त्राहि मां पतिदानतः
वदन्तीति महाप्राज्ञाः प्राणदानं कुरुष्व मे
एवं संप्रार्थ्यमानो ऽपि ब्राह्मण्या राक्षसो द्विजम् अभक्षयकृष्णसारशिशुं व्याघ्रो यथा बलात्
पूर्वशापहतं भूपमशपत्क्रोधिता पुनः
तस्मात्स्त्रीसङ्गमं प्रात्पस्त्वमपि प्राप्स्यसे मृतिम्
राक्षसत्वं ध्रुवं ते ऽस्तु मत्पतिर्भक्षितो यतः
प्रमन्युः प्राहि विसृजन्कोपादङ्गारसंचयम्
एकस्यैवापराधस्य शापस्त्वेको ममोचितः
पिशाचयोनिमद्यैव याहि पुत्रसमन्विता
क्षुधार्ता सुस्वरं भीमारुरोदापत्यसंयुता
जग्मतुर्नर्मदातीरे वनं राक्षससेवितम्
तत्रास्ते दुःखसंतत्पः कश्चिल्लोकविरोधकृत्
उवाच क्रोधबहुलो वटस्थो ब्रह्मराक्षसः
ईदृशौ केन पापेन जातौ मे ब्रुवतां ध्रुवम्
सर्वं निवेदयित्वास्मै पश्चादेतदुवाच ह
सख्युर्ममाति स्नेहेन तत्सर्वं वक्तुमर्हसि
स हि पापपालं भुङ्क्ते यातनास्तु युगायुतम्
तस्मान्मित्रेषु मतिमान्न कुर्याद्वंयनं कदा
उवाच प्रीतिमापन्नो धर्मवाक्यानि नारद
सोमदत्त इति ख्यातो नान्मा धर्मपरायणः
औदासीन्यं गुरोः कृत्वा प्रात्पवानीदृशीं गतिम्
मया तु भक्षिता विप्राः शतशो ऽथ सहस्रशः
जगत्रासकरो नित्यं मांसाशनपरायणः
मयानुभूतमेतद्धि ततः श्रीमान्न चाचरेत्
तद्वदस्व सरवे सर्वं परं कौतूहलं हि मे
यातानहं कथयिष्यामि शृणुष्वैकमनाः सरवे
शास्त्रवक्ता धर्मवक्ता नीतिशास्त्रोपदेशकः
व्रतोपदेशकश्चैव भयत्रातान्नदो हि च