सूते ह्यनन्तरं माया शक्तिं नियमनात्मिकाम्
अनन्तरं च सा माया नित्या विश्वविमोहिनी
एकतस्तु नृणां येन कलयित्वा मलं ततः
कालेन च नियत्योपसर्गतां समुपेतया
प्रदर्शनाथ वै पुंसो विषयाणां च सा पुनः
विद्या त्वावरणं भित्वा ज्ञानशक्तेः स्वकर्मणा
करोति भोग्यं यानासौ करणेन परेण वै
भोग्ये भोगं च भोक्तारं तत्परं करणं तु सा
सुखादिरूपो विषयाकारा बुद्धिः समासतः
यद्यर्कवत्प्रकाशा धीः कर्मत्वाञ्च तथापि हि
संबन्धात्कारणाद्यैस्तद्भोगौत्सुक्येन चोदनात्
अकर्तृत्वाभ्युपगमे भोक्तृत्वाख्या वृथास्य तु
कर्तृत्वरहिते पुंसि करणाद्यप्रयोजके
करणादिप्रयोक्तृआत्वं विद्ययैवास्य संमतम्
येन भोग्याय जनिता भिद्यङ्गे पुरुषे पुनः
एभिस्तत्त्वैश्च भोक्तृत्वदशायां कलितो यदा
कलैव प्रश्चादव्यक्तं सूते भोग्याय चास्य तु
गुणानामविभागो ऽत्र ह्याधारे क्ष्मादिभागवत्
त्रय एव गुणा ह्यषामव्यक्तादेव संभवः
गुणतो धीश्च विषयाध्यवसायस्वरूपिणी
महत्तत्तवादहॄङ्कारो जातः संरंभवृत्तिमान्
सत्त्वा द्विगुणभेदेन स पुनस्त्रिविधो भवेत्
तत्र तैजसतो ज्ञानेन्द्रियाणि मनसा सह
राजसाञ्च क्रियाहेतोस्तथा कर्मेन्द्रियाणि तु
इच्छारूपं च संकल्पव्यापारं तत्र वै मनः
बहिः करणभावेन स्वोचितेन यतः सदा
करोत्यन्तःस्थितं भूयस्ततो ऽन्तः करणं मनः
इच्छासंरंभबोधाख्या वृत्तयः क्रमतो ऽस्य तु
ग्राह्याश्च विषया ह्येषां ज्ञेयाः शब्दादयो मुने
वाक्पाणिपादपायूपस्थास्तु कर्मेन्द्रियाण्यपि