तच्छक्तिमाद्यामेकान्तां विद्रूपाख्यां वदन्ति हि
अशेषतत्त्वजातस्य कारणं विभुरव्ययम्
कृत्यं कुर्वन्ति तेनेदं सर्वानुग्राहकं मुने
आद्योन्मेषो ऽस्य नादात्मा शान्त्यादिभुवनात्मकः
ततो ज्ञानक्रियाशक्त्योस्तथोत्कर्षापकर्षयोः
दृक्शक्तिर्यत्र न्यग्भूता क्रियाशक्तिर्विशिष्यते
यत्र क्रिया हि न्यग्भूता ज्ञानाख्योद्रेकमश्नुते
नादो बिन्दुश्च सकलः सदाख्यं तत्त्वमाश्रितौ
इमानि चैव तत्त्वानि शुद्धाध्वेति प्रकीर्तितम्
पञ्चानां कालराहित्याक्रमो नास्तीति निश्चितम्
तत्त्वं वस्तुत एकं तु शिवाख्यं चित्रशक्तिकम्
चिज्जडानुग्रहार्थाय कृत्वा रूपाणि वै प्रभुः
मुक्तिं च विश्वेषां स्वव्यापारे समर्थेताम्
शिवसामान्यरूपो हि मोक्षस्तु चिदनुग्रहः
तेनानुग्राहकः शम्भुस्तद्भुक्त्यै प्रभुर्व्ययः
कर्त्तोपादानकरणैर्विना कार्ये न दृश्यते
नित्यैका च शिवा शक्त्या ह्यनादिनिधना सती
स्वभावान्मोहजननी स्वचिताजनकर्मभिः
कर्माण्यावेक्ष्य विद्येशो मायां विक्षोभ्य शक्तिभिः
सृजत्यादो कालतत्त्वं नानाशक्तिमयी च सा
सूते ह्यनन्तरं माया शक्तिं नियमनात्मिकाम्
अनन्तरं च सा माया नित्या विश्वविमोहिनी
एकतस्तु नृणां येन कलयित्वा मलं ततः
कालेन च नियत्योपसर्गतां समुपेतया
प्रदर्शनाथ वै पुंसो विषयाणां च सा पुनः
विद्या त्वावरणं भित्वा ज्ञानशक्तेः स्वकर्मणा
करोति भोग्यं यानासौ करणेन परेण वै
भोग्ये भोगं च भोक्तारं तत्परं करणं तु सा
सुखादिरूपो विषयाकारा बुद्धिः समासतः
यद्यर्कवत्प्रकाशा धीः कर्मत्वाञ्च तथापि हि