चकार संहितां दिव्यां नानाख्यानसमन्विताम्
निवृत्तिनिरतं पुत्रं शुकमध्यापयञ्च ताम्
अधीतवान्संहितां वै नित्यं विष्णुजनप्रियाम्
पठतां शृण्वतां चापि हरिभक्तिविवर्द्धनाः
यत्त्वया पायिता विद्वन्वयं कृष्णकथामृतम्
सनन्दनमुखोद्गीतान्किं पप्रच्छं ततः परम्
चरन्ति लोकानन्तसिद्धा लोकोद्धरणतत्पराः
तेषां समागमे भद्रा का कथा लोकपावनी
कथयिष्यामि तत्सर्वं यत्पृष्ट नारदर्षिणा
नारदो भार्गवश्रेष्ठ पुनः पप्रच्छ तान्मुनीन्
समाराध्यः स एवात्र सर्वैः सर्वार्थकाङ्क्षिभिः
के देवाः पूजनीयाश्च विष्णुपादपरायणैः
दीक्षणं प्रातराद्यं च कृत्यं स्याद्यत्तदुच्यताम्
प्रीयेत परमात्मा वै तद्ब्रूत मम मानदाः
सनत्कुमारो भगवानुवाचार्कसमद्युतिः
यज्ज्ञात्वामलया भक्त्या साधयेद्विष्णुमव्ययम्
भोगमोक्षक्रियाचर्याह्वया पादाः प्रकीर्तिताः
पतिस्तत्र शिवोह्येको जीवास्तु पशवः स्मृताः
तावत्पशुत्वमेतेषां द्वैतवत्पश्य नारद
पशवस्त्रिविधाश्चापि विज्ञाताः कलसंज्ञिकाः
तत्राद्यो मलसंयुक्तो मलकर्मयुतः परः
आद्यस्तु द्विविधस्तत्र समासकलुषस्तथा
पक्वापक्वमलेनैव द्विविधः परिकीर्तितः
कलादितत्त्वनियतः सकलः पर्यटत्ययम्
पाशाः पञ्च तथा तत्र प्रथमौ मलकर्मजौ
एको ऽप्यनेकशक्तिर्दृक्क्रियाच्छादनकोमलः
धर्माधर्मात्मकं कर्म विचित्रफलभोगदम्
इत्येतौ प्रथमौ चाथ मायेयाद्यान् शृणुद्विज
पतिर्जयति सर्वेषामेको बीजं विभुः परम्
वर्वर्ति दृक्क्रियारूपं तत्तेजः शांभवं परम्