शङ्खचक्रगदापद्मैर्मूर्तिमद्भिरुपासितम्
कटीसूत्रब्रह्मसूत्रकटकाङ्गदभूषितम्
ददर्श सिद्धनि करैः सेव्यमानमहर्निशम्
नमस्ते वासुदेवाय सर्वलोकैकसाक्षिणे
हरये वासुकिस्थाय श्वेतद्वीपनिवासिने
नृसिंहाय ध्रुवेज्याय सांख्ययोगेश्वराय च
नाभेयाय जगद्धात्रे विधात्रेंऽतकारय च
कृष्णाय वेदकर्त्रे च बुद्धकल्किस्वरूपिणे
नरनारायणाख्याय शिषिविष्टाय विष्णवे
ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च
यज्ञाय यज्ञभोक्ते च स्थविष्ठायाणवे ऽर्थिने
ईज्याय साक्षिणे ऽजायबहुशीर्षाङ्घ्रिबाहवे
अष्टप्रकृत्यधीशाय ब्रह्मणे ऽनन्तसक्तये
पुण्डरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने
सत्याय सत्यसंधाय वैकुण्ठायाच्युताय च
घृतार्चिषे विष्णवे ते ऽनन्ताय कपिलायय च
एकशृङ्गाय च शुचिश्रवसे शास्त्रयोनये
भूर्भुवुःस्वःस्वरूपाय दैत्यघ्ने निर्गुणाय च
नमस्ते पाहि मामीश शरणागतवत्सल
आरणेयमुवाचेदं भृशं प्रणतवत्सलः
विद्यामाप्नुहि भक्तिं च ज्ञानी त्वं मम रूपधृक्
सो ऽहमेवावतारार्थं स्थितो विश्वंभरात्मकः
वरलोकान्यथा वायुर्यथा रवं सविता तथा
भक्तिर्हि दुर्लभा लोके मयि सर्वपरायणे
आकल्पान्तः तपः संस्थौ नरनारायणावृषी
कर्ता भागवतं शास्त्रं तदधीष्व भुवं व्रज
त्वद्वियोगेन खिन्नात्मा तं प्रसादय मत्प्रियम्
यथागतं निवृत्तो ऽसौ पितुरन्तिकमागमत्
पुत्रं प्राप्य प्रहृष्टात्मा तपसो निववर्त ह
आरणेयसमायुक्तः स्वाश्रमं समुपागमत्