स्वयं च तत्र तपसि स्थितः शुकमनुस्मरन्
श्वेतद्वीपं गतस्तात यत्र त्वमगमः पुरा
दृष्टः श्रुतिविमृग्यो हि देवदेवो जनार्दनः
त्वया दृष्टो ऽस्मि योगीन्द्र सर्वदेवरहःस्थितः
त्वं सदागतिमार्गस्थो लोकान्पश्य यथेच्छया
वैकुण्ठं प्रययौ विप्र सर्वलोकनमस्कृतम्
यं भान्तमनुभान्त्येते लोकाः सर्वे ऽपि नारद
वाप्य उत्पलंसंछन्नाः सुरस्त्रीक्रीडनाकुलाः
तत्र द्वाःस्थैश्चतुर्हस्तेनार्नाभरणभूषितैः
प्रविश्याभ्यान्तरं तत्र देवदेवं चतुर्भुजम्
शङ्खचक्रगदापद्मैर्मूर्तिमद्भिरुपासितम्
कटीसूत्रब्रह्मसूत्रकटकाङ्गदभूषितम्
ददर्श सिद्धनि करैः सेव्यमानमहर्निशम्
नमस्ते वासुदेवाय सर्वलोकैकसाक्षिणे
हरये वासुकिस्थाय श्वेतद्वीपनिवासिने
नृसिंहाय ध्रुवेज्याय सांख्ययोगेश्वराय च
नाभेयाय जगद्धात्रे विधात्रेंऽतकारय च
कृष्णाय वेदकर्त्रे च बुद्धकल्किस्वरूपिणे
नरनारायणाख्याय शिषिविष्टाय विष्णवे
ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च
यज्ञाय यज्ञभोक्ते च स्थविष्ठायाणवे ऽर्थिने
ईज्याय साक्षिणे ऽजायबहुशीर्षाङ्घ्रिबाहवे
अष्टप्रकृत्यधीशाय ब्रह्मणे ऽनन्तसक्तये
पुण्डरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने
सत्याय सत्यसंधाय वैकुण्ठायाच्युताय च
घृतार्चिषे विष्णवे ते ऽनन्ताय कपिलायय च
एकशृङ्गाय च शुचिश्रवसे शास्त्रयोनये
भूर्भुवुःस्वःस्वरूपाय दैत्यघ्ने निर्गुणाय च
नमस्ते पाहि मामीश शरणागतवत्सल
आरणेयमुवाचेदं भृशं प्रणतवत्सलः