न तत्र पक्षिसंघातो न शब्दो न च दर्शनम्
स ददर्श तदात्मानं सर्वसंगविनिःसृतः
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये
अन्तरीक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः
ददृशुः सर्वभूतानि मनोमारुतरंहसम्
पुष्प वर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः
ऋषयश्चैव संसिद्धाः को ऽयं सिद्धिमुपागतः
उवाच च महातेजास्तानृषीन्संप्रहर्षितः
तस्मै प्रतिवचोदेयं भवद्भिस्तु समाहितैः
तमो ह्यष्टविधं त्यक्त्वा जहौ पञ्चविधं रजः
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गपूजिते
संश्लिष्टे श्वेतपीते च रुक्मरूप्यमये शुभे
सो ऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः
अदृश्येतां द्विजश्रेष्ठ तदद्भुतमिवाभवत्
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननम्
निराकारं तु साकाराददृशुस्तं विवाससः
उत्तमां गतिमास्थाय पृष्टतो ऽनुससार ह
दर्शयित्वा प्रभावं स्वं सर्वभूतो ऽभवत्तदा
निमेषान्तरमात्रेण शुकाभिपतनं ययौ
शशंसुर्मुनयः सिद्धा गतिं तस्मै सुतस्य ताम्
स्वयं पित्रा स्वरेणोञ्चैस्त्रींल्लोकाननुनाद्य वै
प्रत्यभाषत धर्मात्मा भोः शब्देनानुनादयन्
प्रत्याहरज्जगत्सर्वमुञ्चैः स्थावरजङ्गमम्
गिरिगह्वरपृष्टेषु व्याजहार शुकं प्रति
गुणान्संत्यज्य सत्त्वादीन्पदमध्यगमत्परम्
सो ऽनुनीतो भगवता व्यासो रुद्रेण नारद
पश्यसि विप्र नायान्तं ब्रह्मभूतं निजान्तिरे
श्वाश्रमं स शुको ब्रह्मभूतो लोकांश्चचार ह
नरनारायणौ द्रष्टुं ययौ बदरिकाश्रमम्