गर्भस्य सह जातस्य सप्तमीमीदृशीं दशाम्
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलन्धनम्
वेदना नापकर्षन्ति यतमानाश्चिकित्सकाः
व्याधिभिः परिकृष्यन्ते मृगा ज्याघ्रैरिवार्दिताः
दृश्यन्ते जरया भग्ना नागैर्नागा इवोत्तमाः
श्वापदाश्च दरिद्राश्च प्रायो नार्ता भवन्ति ते
आक्रम्य रोग आदत्ते पशून्पशुपचो यथा
स्रोतसा महसा क्षिप्रं ह्रियमाणं बलीयसा
स्वभावा ह्यतिवर्तन्ते ये निर्मुक्ताः शरीरिषु
यतते च यथाशक्ति न च तद्वर्तते तथा
नाप्रियं प्रतिपद्येरन्नुत्थानस्य फलं प्रति
अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते
स्वं स्वं च पुनरन्येषां न कञ्चिदतिगच्छति
वहॄन्ति शिबिकामन्ये यान्त्यन्ये शिबिकारुहः
मनुजाश्च गतश्रीकाः शतशो विविधाः स्त्रियाः
इदमन्यत्परं पश्य नात्र मोहं करिष्यसि
सर्वं त्यक्त्वा स्वरूपस्थः सुखी भव निरामयः
येन देवाः परित्यज्य भर्त्यलोकं दिवं गताः
सनत्कुमारः प्रययौ पूजितस्तेन सादरम्
ब्रह्मणः पदमन्वेष्टुमुत्सुकः पितरं ययौ
शुकः प्रदक्षिणीकृत्य ययौ कैलासपर्वतम्
क्षणैकं स्थीयतां पुत्र इति च क्रोश दुर्मनाः
मोक्षमेवानुसंचित्य गत एव परं पदम्
पुनः पप्रच्छ तं विप्र शुकाभिपतनं मुनिम्
यच्छ्रृत्वा मानसं मे ऽद्य शान्तिमग्र्यामुपागतम्
नहि सम्पूर्णतामेति तृष्णा कृष्णगुणार्णवे
कुत्र ते निवसंतीह संशयो मे महानयम्
धारयामास चात्मानं यथाशास्त्रं महामुनिः
ततः स प्राङ्मुखो विद्वानादित्येन विरोचिते