अन्यामन्यां धनावस्थां प्राप्य वैशेषिका नराः
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम्
निमेषमात्रमपि हि यो ऽधिगच्छन्न तिष्टति
भूतेषु भावं संचिन्त्य ये बुद्ध्या तमसः परम्
संचिन्वन्नेकमेवैनं कामानावितृप्तकम्
अथाप्युपायं संपश्येद्दुःखस्यास्य विमोक्षणे
शब्दे स्पर्शे रसे रूपे गन्धे च परमं तथा
वाक्संप्रयोगाद्भृतानां नास्ति दुःखमनामयम्
प्रणयं परिसंहृत्य संस्तुतेष्वितरेषु च
अध्यात्मगतमालीनो निरपेक्षो निरामिषः
सुखदुःखविपर्यासो यदा समुपपद्यते
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति
तानि पूर्वशरीराणि नित्यमेकं शरीरिणम्
निर्दग्धं परदेहेन परदेंहं बलाबलम्
संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम्
अन्नपानानि जीर्यन्ते यत्र भक्ष्याश्च भक्षिताः
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः
प्रभवन्त्युदरे गर्भा जायमानास्तथापरे
एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते
गर्भस्य सह जातस्य सप्तमीमीदृशीं दशाम्
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलन्धनम्
वेदना नापकर्षन्ति यतमानाश्चिकित्सकाः
व्याधिभिः परिकृष्यन्ते मृगा ज्याघ्रैरिवार्दिताः
दृश्यन्ते जरया भग्ना नागैर्नागा इवोत्तमाः
श्वापदाश्च दरिद्राश्च प्रायो नार्ता भवन्ति ते
आक्रम्य रोग आदत्ते पशून्पशुपचो यथा
स्रोतसा महसा क्षिप्रं ह्रियमाणं बलीयसा
स्वभावा ह्यतिवर्तन्ते ये निर्मुक्ताः शरीरिषु