सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः
आमयस्य विनाशाय शरीरमनुकृष्यते
आयुरादाय मर्त्यानां रात्र्यहानि पुनःपुनः
जातं मर्त्यं जरयति निमिषं नावतिष्टते
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च
इष्टानिष्टा मनुष्याणां मतं गच्छन्ति रात्रयः
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्
दृश्यन्ते निष्फलाः संतः प्रहीनाश्च स्वकर्मभिः
आशाभिरण्यसंयुक्ता दृश्यन्ते सर्वकामिनः
वञ्चनायां च लोकेषु ससुखेष्वेव जीयते
कश्चित्कर्माणि कुरुते न प्राप्यमधिगच्छति
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते
सिद्धौ प्रयतमानानां नैवाण्डमुपजायते
आयुष्मान् जायते पुत्रः कथं प्रेतः पितेव सः
दशमासान्परिधृता जायते कुलपांसनाः
विमलानभिजायन्ते लब्ध्वा तैरेव मङ्गलैः
उपद्रवैवादृष्टो योनौ गर्भः प्रपद्यते
परित्यजति यो दुःखं सुखमप्युभयं नरः
दुःखमर्था हि त्यज्यन्ते पालने च न ते सुखाः
अन्यामन्यां धनावस्थां प्राप्य वैशेषिका नराः
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम्
निमेषमात्रमपि हि यो ऽधिगच्छन्न तिष्टति
भूतेषु भावं संचिन्त्य ये बुद्ध्या तमसः परम्
संचिन्वन्नेकमेवैनं कामानावितृप्तकम्
अथाप्युपायं संपश्येद्दुःखस्यास्य विमोक्षणे
शब्दे स्पर्शे रसे रूपे गन्धे च परमं तथा
वाक्संप्रयोगाद्भृतानां नास्ति दुःखमनामयम्
प्रणयं परिसंहृत्य संस्तुतेष्वितरेषु च