यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः
ततः कर्म समादत्ते पुनरन्यन्नवं बहु
अजस्रमेव मोहान्तो दुःखेषु सुखसंज्ञितः
ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह
संयमेन च संबन्धान्निवृत्त्या तपसो बलात्
सम्प्राप्ता बहवः सिद्धिं अव्याबाधां सुखोदयाम्
निशम्य लभ्यते बुद्धिर्लब्धायां सुखमेधते
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
मनुष्या मानसैर्दुःखैर्युज्यन्ते ये ऽल्पबुद्धयः
ताननाद्रियमाणश्च स्नेहबन्धाद्विमुच्यते
अनिष्टबुद्धितां यच्छेत्ततः क्षिप्रं विराजते
अस्याभावेन युज्येतं तञ्चास्य तु निवर्तते
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते
दुःखेन लभते दुःखं महानर्थे प्रपद्यते
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुर्चितयेत्
चिन्त्यमानं हि न व्येति भूयश्चाभिप्रवर्द्धते
एतद्विज्ञाय सामर्थ्यं न वान्यैः समतामियात्
आरोग्यं प्रियसंवासं न मृध्येत्पण्डितः क्वचित्
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम्
जरामरणदुःखेभ्यः प्रियमात्मानमुद्धरेत्
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः
आमयस्य विनाशाय शरीरमनुकृष्यते
आयुरादाय मर्त्यानां रात्र्यहानि पुनःपुनः
जातं मर्त्यं जरयति निमिषं नावतिष्टते
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च
इष्टानिष्टा मनुष्याणां मतं गच्छन्ति रात्रयः
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्
दृश्यन्ते निष्फलाः संतः प्रहीनाश्च स्वकर्मभिः
आशाभिरण्यसंयुक्ता दृश्यन्ते सर्वकामिनः
वञ्चनायां च लोकेषु ससुखेष्वेव जीयते