द्वन्द्वारामेषु भूतेषु वराको रमते मुनिः
शुभैर्लभेत देवत्वं व्यामिश्रैर्जन्म मानुषम्
तत्र मृत्युजरादुःखैः सततं समभिद्रुतम्
अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः
संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः
अलं परिग्रहेणेह दोषवान् हि परिग्रहः
पुत्रदारकुटुंबेषु सक्ताः सीदन्ति जन्तवः
मोहजालसमाकृष्टान्पश्यजन्तून्सुदुःखितान्
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृते
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्टसि
तमः कर्त्तारमध्वानं कथमेको गमिष्यसि
सुकृतं दुष्कृतं च त्वां गच्छन्तमनुयास्यतः
अर्थार्थमनुशीर्यन्ते सिद्धार्थस्तु विमुच्यते
छित्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
न च नामास्ति निर्वेदो लोहं हि हृदयं तव
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरारुहाम्
त्यागवाताध्वगां शीघ्रां बुद्धिनावं नदीं तरेत्
त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्
जराशोकसमाविष्टं रोगायतनमस्थिरम्
इदं विश्वं जगत्सर्वमजगञ्चापि यद्भवेत्
इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि हितम्
एतैः सर्वैः समायुक्तमनित्यमभिधीयते
य इदं वेद तत्त्वेन सस वेद प्रभवाप्ययौ
अव्यक्तमथ तज्ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्
लोके विहितमात्मानं लोकं चात्मनि पश्यति
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा
ज्ञानेन विविधात्क्लेशान्न निवृत्तिश्च देहजात्
अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम्