आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितम्
इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह
आत्मभूतैरतद्भूतः सह चैव विनैव च
अदर्शनमसंस्पर्शस्तथैवाभाषाणं सदा
न हिंस्यात्सर्वभूतानि भूतैर्मैत्रायणश्चरेत्
आकिञ्चन्यं सुसंतोषो निराशिष्ट्वमचापलम्
परिग्रहं परित्यज्य भव तातजितेन्द्रियः
निराशिषो न शोचन्ति त्यजेदाशिषमात्मनः
तपरोनित्येन दान्तेन मुनिना संयतात्मना
गुणसंगेष्वेष्वनासक्त एकचर्या रतः सदा
द्वन्द्वारामेषु भूतेषु वराको रमते मुनिः
शुभैर्लभेत देवत्वं व्यामिश्रैर्जन्म मानुषम्
तत्र मृत्युजरादुःखैः सततं समभिद्रुतम्
अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः
संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः
अलं परिग्रहेणेह दोषवान् हि परिग्रहः
पुत्रदारकुटुंबेषु सक्ताः सीदन्ति जन्तवः
मोहजालसमाकृष्टान्पश्यजन्तून्सुदुःखितान्
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृते
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्टसि
तमः कर्त्तारमध्वानं कथमेको गमिष्यसि
सुकृतं दुष्कृतं च त्वां गच्छन्तमनुयास्यतः
अर्थार्थमनुशीर्यन्ते सिद्धार्थस्तु विमुच्यते
छित्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
न च नामास्ति निर्वेदो लोहं हि हृदयं तव
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरारुहाम्
त्यागवाताध्वगां शीघ्रां बुद्धिनावं नदीं तरेत्
त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्
जराशोकसमाविष्टं रोगायतनमस्थिरम्