सम्यगन्वीक्षता बुद्ध्या शान्तयाध्यात्मनित्यया
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे
येन वृष्ट्या पराभूतस्तोयान्येन निवर्तते
एवमेते दितेः पुत्रा मरुतः परमाद्भुताः
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः
विष्णोर्निःश्वासवातो ऽयं यदा वेगसमीरितः
तस्माद्ब्रह्मविदो ब्रह्म न पठन्त्यतिवायुतः
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः
ततो व्यासे गते स्नातुं शुको ब्रह्मविदां वरः
तत्र स्वाध्यायसंसक्तं शुकं व्याससुतं मुने
उत्थाय सत्कृतस्तेन ब्रह्मपुत्रो हि कार्ष्णिना
किं करोषि महाभाग व्यासपुत्र महाद्युते
त्वद्दर्शनमनुप्राप्तः केनापि सुकृतेन च
तद्वदस्व महाभाग यथा त ज्ज्ञानमाप्नुयाम्
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम्
नालं स दुःखमोक्षाय संगो वै दुःखलक्षणः
मोहजालावृतो दुःखमिहामुत्र तथाश्नुते
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः
आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितम्
इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह
आत्मभूतैरतद्भूतः सह चैव विनैव च
अदर्शनमसंस्पर्शस्तथैवाभाषाणं सदा
न हिंस्यात्सर्वभूतानि भूतैर्मैत्रायणश्चरेत्
आकिञ्चन्यं सुसंतोषो निराशिष्ट्वमचापलम्
परिग्रहं परित्यज्य भव तातजितेन्द्रियः
निराशिषो न शोचन्ति त्यजेदाशिषमात्मनः
तपरोनित्येन दान्तेन मुनिना संयतात्मना
गुणसंगेष्वेष्वनासक्त एकचर्या रतः सदा