उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्द्धारयते जलम्
यो ऽद्धिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छती
संनीयमाना बहुधा येन नीला महाघनाः
यो ऽसौ वहति देवानां विमानानि विहायसा
येन वेगवता रुग्णाः क्रियन्ते तरुजा रसाः
यस्मिन्परिप्लवे दिव्या वहॄन्त्यापो विहायसा
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः
यस्मादाप्यायते सोमो निधिर्दिव्यो ऽमृतस्य च
सर्वप्राणभृतां प्राणार्न्यो ऽतकाले निरस्यति
सम्यगन्वीक्षता बुद्ध्या शान्तयाध्यात्मनित्यया
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे
येन वृष्ट्या पराभूतस्तोयान्येन निवर्तते
एवमेते दितेः पुत्रा मरुतः परमाद्भुताः
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः
विष्णोर्निःश्वासवातो ऽयं यदा वेगसमीरितः
तस्माद्ब्रह्मविदो ब्रह्म न पठन्त्यतिवायुतः
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः
ततो व्यासे गते स्नातुं शुको ब्रह्मविदां वरः
तत्र स्वाध्यायसंसक्तं शुकं व्याससुतं मुने
उत्थाय सत्कृतस्तेन ब्रह्मपुत्रो हि कार्ष्णिना
किं करोषि महाभाग व्यासपुत्र महाद्युते
त्वद्दर्शनमनुप्राप्तः केनापि सुकृतेन च
तद्वदस्व महाभाग यथा त ज्ज्ञानमाप्नुयाम्
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम्
नालं स दुःखमोक्षाय संगो वै दुःखलक्षणः
मोहजालावृतो दुःखमिहामुत्र तथाश्नुते
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः