इति शापं ददत्यस्मिन्सौदासो भयविह्वूलः
भूराशृ चिन्तयामास वशिष्टस्तेन नोदितः
राजापि जलमादाय वशिष्टं शप्तुमुद्यतः
मदयन्ती प्रियातस्य प्रत्युवाचाथ सुव्रता
त्वया यत्कर्म भोक्तव्यं तत्प्रात्पं नात्र संशयः
अरण्ये निर्जले देश स भवेद्धह्यराक्षसः
प्रयान्ति ब्रह्मसदनमिति शास्त्रेषु निश्चयः
जलं कुत्र क्षिपामीति चिन्तयामास चात्मना
इति मत्वा जलं तत्तु पादयोर्न्यक्षिपत्स्वयम्
कल्माषपाद इत्येवं ततः प्रभृति विस्तृतः
मनसा सो ऽतिभीतस्तु ववन्दे चरणं गुरोः
क्षमस्व भगवन्सर्वं नापराधः कृतो मया
आत्मानं गर्हयामास ह्यविवेकपरायणम्
विवेकरहितो लोके पशुरेव न संशयः
विवेकरहितो ऽज्ञो ऽहं यतः पापं समाचरेत्
विवेकहीनमान्पोति को वा यो वाप्यनिर्वृतिम्
नात्यन्तिङ्कं भवेदेतद्दादशाब्दं भविष्यति
पूर्वरुपं त्वमापन्नो भोक्ष्यसे मेदिनीमिमाम्
राजापि दुःखसंपन्नो राक्षसीं तानुमाश्रितः
कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने
विहङ्गमान्प्लवङ्गांश्च प्रशस्तांस्तानभक्षयत्
रक्तान्तप्रेतकेशैशअच चित्रासीद्भूर्भयङ्करी
कृत्वातिदुःखितां पश्चाद्वनान्तरमुपागमत्
जगाम नर्मदातीरं मुनिसिद्धनिषेवितम्
अपश्यत्कञ्चन मुनिं रमन्तं प्रियया सह
जाग्राह चातिवेगेन व्याधो मृगशिशं यथा
शिरस्यञ्जलिमाधाय प्रोवाच भयविह्वाला
प्राणप्रिय प्रदानेन कुरु पूर्णं मनोरथम्
न राक्षसस्ततो ऽनाथां पाहि मां विजने वने
तथापि बालवैधव्यं किं वक्ष्याम्यरिमर्दन