व्यवसायादृते ब्रह्मन्नासादयति तत्पदम्
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते
पश्यामित्वां महाभाग तुल्यनिन्दात्मसंस्तुतिम्
आस्थितं परमं मार्गे अक्षयं चाप्यनामयम्
तस्मिन्वै वर्तसे विप्रकिमन्यत्परिपृच्छसि
आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना
शैशिरं गिरिमासाद्य पाराशर्यं ददर्श च
आरर्णेयो विशुद्धात्मा दिवाकरसमप्रभः
ततो निवेदयामास पितुः सर्वमुदारधीः
तच्छत्वा वेदकर्तासौ प्रहृष्टेनान्तरात्मना
समालिङ्ग्य सुतं व्यासः स्वपार्श्वस्थं चकार च
शैलशृङ्गाद्भुवं प्राप्ता याजनाध्यापने रताः
तूर्ष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्
भो भो महर्षे बासिष्ठ ब्रह्मघोषो न वर्तते
ब्रह्मघोषैर्विरहितः पर्वतो ऽयं न शोभते
वेदान्वेदविदा चैव सुप्रसन्नमनाः सदा
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्
वातो ऽतिमात्रं प्रववौ समुद्रानिलवीजितः
शुको वारितमात्रस्तु कौतूहलसमन्वितः
आख्यातुमर्हति भवान्सर्वं वायोर्विचैष्टितम्
अनध्यायनिमित्तऽस्मिन्निदं वचनं मब्रवीत्
तमसा रजसा चापि त्यक्तः सत्ये व्यवस्थितः
देवयानचरो विष्णोः पितृयानश्च तामसः
पिथिव्यामन्तरिक्षे च यतः संयान्ति वायवः
तत्र देवगणाः साध्याः समभूवन्महाबलाः
उदानस्तस्य पुत्रो ऽभूव्द्यानस्तस्याभवत्सुतः
अनपत्यो ऽभवत्प्राणो दुर्द्धर्षः शत्रुमर्दनः
प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक्
प्रेषयत्यभ्रसंघातान्धूमजांश्चोष्मजांस्तथा
अंबरे स्नेहमात्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः