अनसूयुर्यथान्यायमाहिताग्निरनादृते
तानेवाग्नीन्यथान्यायं पूजयन्नतिथिप्रियः
निर्द्वन्द्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत्
न विना गुरुसंवासाज्ज्ञानस्याधिगमः स्मृतः
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति
न विना गुरुसंबधाज्ज्ञानस्याधिगमस्तथा
विज्ञाय कृतकृत्यस्तु तीर्णस्तत्रोभयं त्यजेत्
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते
आसादयति शुद्धात्मा मोक्षं हि प्रथमाश्रमे
त्रिधाश्रमेषु कोन्वर्थो भवेत्परमभीप्सतः
सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना
संपश्यन्नैव लिप्येत जले वारिचरगो यथा
विहाय देहं निर्मुक्तो निर्द्वन्द्वः शुभसंगतः
धार्यते या द्विजैस्तात मोक्षशास्त्रविशारदैः
स्वयं च शक्यं तद्द्रष्टुं सुसमाहितर्चतसा
यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते स तु
पूर्वैराचरितो धर्मश्चतुराश्रमसंज्ञकः
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
त्यक्त्व कामं च लोभं च ततो ब्रह्मत्वमश्नुते
समो भवति निर्द्वुद्वो ब्रह्म संपद्यते तदा
काञ्चनं चायसं चैव सुखदुःखे तथैव च
जीवितं मरणं चैव ब्रह्म संपद्यते तदा
तर्थेद्रियाणि मनसा संयन्तव्यानि भिक्षुणा
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्
यञ्चान्यदपि वेत्तव्यं तत्त्वतो वेत्ति तद्भवान्
गुरोश्चैव प्रसादेन तव चैवोपशिक्षया
ज्ञानं दिव्यं समादीप्तं तेनासि विदितो विदितो मम
अधिकं च तवैश्वर्यं तञ्च त्वं नावबुध्यसे
उत्पन्ने चापि विज्ञा ने नाधिगच्छन्ति ताङ्गतिम्
विमुच्य हृदयग्रन्थीनार्तिमासादयन्ति ताम्