विदेहान्वै समासाद्य जनकेन समागमत्
तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः
तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः
जूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः
तत्रान्तःपुरसंबद्धं महच्चैत्रग्थोपमम्
दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत्
सेवायै तस्य भावस्य ज्ञानाय मुनिसतम
सूक्ष्मरक्तांबरधरास्तप्तकाञ्चनभूषणाः
परं पञ्चाशतस्तस्य पाद्यादीनि व्यकल्पयन्
तस्य भुक्तवतस्तात तास्ततः पुरकाननम्
क्रीडन्त्यश्च हसंत्यश्च गायन्त्यश्चैव ताः शुकम्
आरणेयस्तु शुद्धात्मा जितक्रोधो जितेन्द्रियः
पादशौचं तु कृत्वा वै शुकः संध्यामुपास्य च
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः
ततः प्रातः समुत्थाय कृत्वा शौचमनन्तरम्
अनेन विधिना तत्र तदहःशेषमप्युत
तां च रात्रिं नृपकुले वर्तयामास नारद
पुरः पुरोहितं कृत्वा सर्वाण्यन्तः पुराणि च
महदासनमादाय सर्वरत्नविभूषितम्
तत्रोपविष्टं तं कार्ष्णिशास्त्रदृष्टेन कर्मणा
स च तांमन्त्रतः पूजां प्रतिगृह्य द्विजोत्तमः
उदारसत्त्वाभिजनो राजापि गुरुसूनवे
किमागमनिमित्येव पर्यपृच्छद्विधानवित्
विदेहराजोह्याद्योमे जनको नाम विश्रुतः
प्रवृत्तौ च निवृत्तौ च सर्वं छेत्स्यत्यसंशयम्
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि
कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा
कृतोपनयनस्तात भवेद्वेदपरायणः
देवतानां पितॄणां च ह्यतृष्णश्चानसूयकः
अभ्यनुज्ञामनुप्राप्य समावर्तेत वै द्विजः