आरणे यस्तदा दिव्यं प्राप्य जन्म महामुनिः
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः
बृहस्पतिं स वव्रे च वेदवेदाङ्गभाष्यवित्
सो ऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान्
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः
देवतानामृषीणां च बाल्ये ऽपि सुमहातपाः
न त्वस्य रमते बुद्धि राश्रमेषु मुनीश्वर
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्
मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे
शृत्वा पुत्रस्य वचनं परमर्षिरुवाच तम्
पितुर्निदेशाज्जग्राह शुको ब्रह्मविदां वरः
शतं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम्
उवाच गच्छेति तदा जनकं मिथिलेश्वरम्
पितुर्नियोगादगमज्जनकं मेथखिलं नृपम्
उक्तश्च मानुषेण त्वं तथा गच्छेत्यविस्मितः
आर्जवेनैव गन्तव्यं न सुखाय क्षणात्त्वया
अहॄङ्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः
सगिरीं श्चाप्यतिक्रम्य भारतं वर्षमासदत्
विदेहान्वै समासाद्य जनकेन समागमत्
तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः
तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः
जूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः
तत्रान्तःपुरसंबद्धं महच्चैत्रग्थोपमम्
दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत्
सेवायै तस्य भावस्य ज्ञानाय मुनिसतम
सूक्ष्मरक्तांबरधरास्तप्तकाञ्चनभूषणाः
परं पञ्चाशतस्तस्य पाद्यादीनि व्यकल्पयन्
तस्य भुक्तवतस्तात तास्ततः पुरकाननम्