गते बहुतिथे काले हयमेधमखं नृपः
तत्र ब्रह्मादिदेवेभ्यो हविर्दत्त्वा यथाविधि
कर्तुं प्रतिक्रियां राज्ञे समायातोरुषान्वितः
राजानमभ्येत्य जगाद भोक्ष्ये मांसं समिच्छाम्यहमित्युवाच
स्थितश्च राजापि हरि यपात्रे धृत्वा गुरोरागमनं प्रतीक्षन्
समागताय गुरुवे ददौ तस्मौ ससादरम्
तं दृष्ट्वा चिन्तयामास गुरुः किमिति विस्मितः
अहो ऽस्य राज्ञो दौःशील्यमभक्ष्यं दत्तवान्मम
अभो ऽज्यं मद्विघाताय दत्त हि पृथिवीपते
नृमांसं रक्षसामेव भोज्यं दत्तं मम त्वया
इति शापं ददत्यस्मिन्सौदासो भयविह्वूलः
भूराशृ चिन्तयामास वशिष्टस्तेन नोदितः
राजापि जलमादाय वशिष्टं शप्तुमुद्यतः
मदयन्ती प्रियातस्य प्रत्युवाचाथ सुव्रता
त्वया यत्कर्म भोक्तव्यं तत्प्रात्पं नात्र संशयः
अरण्ये निर्जले देश स भवेद्धह्यराक्षसः
प्रयान्ति ब्रह्मसदनमिति शास्त्रेषु निश्चयः
जलं कुत्र क्षिपामीति चिन्तयामास चात्मना
इति मत्वा जलं तत्तु पादयोर्न्यक्षिपत्स्वयम्
कल्माषपाद इत्येवं ततः प्रभृति विस्तृतः
मनसा सो ऽतिभीतस्तु ववन्दे चरणं गुरोः
क्षमस्व भगवन्सर्वं नापराधः कृतो मया
आत्मानं गर्हयामास ह्यविवेकपरायणम्
विवेकरहितो लोके पशुरेव न संशयः
विवेकरहितो ऽज्ञो ऽहं यतः पापं समाचरेत्
विवेकहीनमान्पोति को वा यो वाप्यनिर्वृतिम्
नात्यन्तिङ्कं भवेदेतद्दादशाब्दं भविष्यति
पूर्वरुपं त्वमापन्नो भोक्ष्यसे मेदिनीमिमाम्
राजापि दुःखसंपन्नो राक्षसीं तानुमाश्रितः
कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने