संकल्पेनाथ सो ऽनेन दुष्प्रापमकगृतात्मभिः
अतिष्टन्मारुताहारः शतं किल समाः प्रभुः
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम्
तस्निन् दिव्ये वने रम्ये देवदेवर्षिसंकुले
न चास्य हीयते वर्णो न ग्लानिरुपजायते
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः
एवं विधेन तपसा तस्य भक्त्या च नारद
उवाच चैनं भगवांस्त्र्यंबकः प्रहसन्निव
यथा खे च तथा शुद्धो भविष्यति सुतस्तंव
तेजसा तस्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम्
अरणिं त्वथ संगृह्य ममन्थाग्निचिकीर्षया
घृताचीं नामाप्सरसं ददर्श भगवान्नृषिः
अभवद्भगवान्व्यासो वने तस्मिन्मुनीश्वर
शुकीभूया महारम्या घृताची समुपागमत्
स्मरराजेनानुगतः सर्वगात्रातिगेन ह
न शशाक नियन्तुं तं व्यासः प्रविसृतं मनः
हृतम् यत्नान्नियच्छतश्चापि मुने एतञ्चिकीर्षया
शुक्रे निर्मथ्यमाने ऽस्यां शुको जज्ञे महातपाः
यथैव हि समिद्धो ऽग्निर्भाति हव्यमुपात्तवान्
बिभ्रञ्चित्रं च विप्रेन्द्र रूपवर्णमनुत्तमम्
अभ्येत्य स्नापयामास वारिणा स्वेन नारद
जगीयन्त च गन्धर्वा ननृतुञ्चाप्सरोगणाः
विश्वावसुश्च गन्धर्वस्तथा तुंबुरुनारदौ
तत्र शक्रपुरोगाश्च लोकपालाः समागताः
दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः
तस्य देवेश्वरः शक्तो दिव्यमद्भुतदर्शनम्
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः