यदाप्रत्यङ्नता मघाः खसप्तोपरि संस्थिताः
नखैर्लिखन्तोमार्जाराश्चावनिं लोहसंयुते
पिपीलिकाश्रेणयश्छिन्नाः खद्योता बहवस्तदा
उदयास्तमये काले विवर्णोर्ऽकेथ वा शशी
प्राङ्मुखस्य तु कूर्मस्य नवाङ्गेषु धरामिमाम्
अन्तर्वेदाश्च षाञ्चालस्तस्येदं नाभिमण्डलम्
स्त्रीकलिङ्गकिराताख्या देशास्तद्बाहुमण्डलम्
गौडकैङ्कणशाल्वान्ध्रपौड्रस्तत्पादमण्डलम्
पुलिन्दचीनयवनगुर्जराः पादमण्डलम्
खसांगवङ्गबाह्लीकं कांबोजाः पाणिमण्डलम्
नाभ्यादिषु नवाङ्गेषु पापैर्दुष्टं शुभैः शुभम्
मुहू रुदन्ति गायन्ति प्रस्विद्यन्ति हसंति च
अधोमुखाधितिष्टन्ति स्थानात्स्थानं व्रजन्ति च
गन्धर्वनगरं चैव दिवा नक्षत्रदर्शनम्
गान्धर्वं देहदिग्धूमं भूमिकंपं दिवा निशि
निशीन्द्रचापमण्डूकं शिखरे श्वेतवायसः
जन्तवो द्वित्रिशिरसो जायन्ते वापि योनिषु
जम्बूकग्रामसंवासः केतूनां च प्रदर्शनम्
अकाले पुष्पिता वृक्षा दृश्यन्ते फलिता यदि
एवमाद्या महोत्पाता बहवः स्थाननाशदा
मध्याद्भयं यशो मृत्युः क्षयः कीर्तिः सुखासुखम्
इत्यादिषु च सर्वेषूत्पातेषु द्विजसत्तम
इत्येतत्कथितं विप्र ज्यौतिषं ते समासतः
अतः परं प्रवक्ष्यामि च्छन्दः शास्त्रमनुत्तमम्
मात्रावर्णविभेदेन तच्चापि द्विविधं पुनः
कारणं छन्दसि प्रोक्ताश्छन्दःशास्त्रविशारदैः
मध्यलो रगणश्वैव प्रान्त्यगः सगणो मतः
त्रिलघुर्नगणः प्रोक्तस्त्रिका वर्णगणा मुने
संयोगश्च विसर्गश्चानुस्वारो लघुतः परः
पादश्चतुर्थभागः स्याद्विच्छेदोयतिरुच्यते