वन्ध्याकुञ्जककाषायमुक्तकेशबुभुक्षितैः
प्रज्वलाग्नीन्सुतुरगनृपासनपुराङ्गनाः
भक्ष्येक्षुफलमृत्स्नान्नमध्वाज्यदधिगोदयाः
पुण्यस्त्रीपुण्यकलशरत्नभृङ्गारगोद्विजाः
वेदमङ्गलघोषाः स्युः या यिनां कार्यसिद्धिदाः
स्मृत्वा द्वितीये विप्राणां कृत्वा पूजां निवर्तयेत्
अफलं यद्बालवृद्धरोगिपैनसिकैः कृतम्
हन्यात्परपुरप्राप्तो न स्त्रीर्नित्यं निरायुधान्
विधाय पूर्वदिवसे वास्तुपूजाबलिक्रियाम्
प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः
शुभः प्रेवशो देवेज्यशुक्रयोर्द्दृश्यमानयोः
दिवा वा यदि वा रात्रौ प्रवेशो मङ्गलप्रदः
स्थिरलग्ने स्थिरांशे च नैधने शुद्धिसंयुते
लग्रान्त्याष्टमषष्टस्थवर्जितेन द्वियांशुना
प्रवेशल्ग्ने स्यामृद्धिरन्यभेशोकनिःस्वता
कृत्वार्कं वामतो विद्वान्भृङ्गारं चाग्रतो विशेत्
केन्द्रगे वा शुक्लपक्षे चातिवृष्टिः शुभेक्षिते
चन्द्रश्चेद्धार्गवे सर्वमेवंविध गुणान्विते
मन्दात्र्रिकोणसप्तस्थो यदि वा वृद्धिकृद्भवेत्
तयोर्ंमध्यगते भानौ भवेद्ष्टिविनाशनम्
प्रवर्षणं भृगुः कुर्याद्विपरीते न वर्षणम्
तदा वृष्टिं प्रकुर्वन्ति न ते चेत्प्रतिलोमगाः
उदयास्तेषु वृष्टिः स्याद्भानोरार्द्राप्रवेशने
स्तोकवृष्टिरनर्घः स्यादवृष्टिः सस्यसंपदः
चन्द्रेज्ये ज्ञेथ वा शुक्रे केन्द्रेन्बीतिर्विनश्यति
वर्षत्यार्द्रादिमृलान्तं प्रत्यक्षं प्रत्यहं तथा
सिंहे भिन्ने कुजो वृष्टिरभिन्ने कर्कटे तथा
अहिर्बुध्न्यं पूर्वशस्यं परशस्या च रेवती
गुरोः सप्तमरा तिस्थः प्रत्यग्गो भृगुजो यदा
आसप्तमर्क्षंशशिनः परिवेशगतोत्तरा