बलक्षयपक्षदशमीमासीषे विजयाभिधा
निमित्तशकुनादिभ्यः प्रधानं हि मनोदयः
उत्सवोपनयोद्वाहप्रतिष्टाशौचसूतके
महिषोन्दुरयोर्युद्धे कलत्रकलहार्त्तवे
घृतान्नं तिलपिष्टान्नं मत्स्यान्नं घृतपायसम्
सज्जिका परमान्नं च काञ्जिक च पयो दधि
कुल्माषांश्च तिलान्नं च दधि क्षौद्रं घृतं पयः
शशमांसं च षाष्टिक्यं प्रियगुङ्कमपूपकम्
हविष्यं कृशरान्नं च मुद्गान्नं यवपिष्टिकम्
भुक्त्वा राजेभाश्वरथनरैर्याति जयत्यरीन्
प्रणम्य देवभूदेवानाशीर्वादैर्नृपो व्रजेत्
इन्द्रमैरावतारूढं शच्या सह विराजितम्
सप्तहस्तं सप्तजिह्वं षण्मुखं मेषवाहनम्
दण्डायुधं लोहितार्क्षं यमं महिषवाहनम्
खड्गचर्मधरं नीलं निरृतिं नखाहनम्
नागपाशधरं पीतवर्णं मकरवाहनम्
प्राणिनां प्राणरूपं तं द्विबाहुं दण्डपाणिकम्
अश्वारूढं कुंभपाणिं द्विबाहुं स्वर्णसन्निभम्
पिनाकिनं वृषारूढं गौरीपतिमनुत्तम्
अप्रयाणे स्वयं कार्या प्रेक्षया भूभुजस्तथा
स्वस्थानान्निर्गमस्थानं दडानां च शतन्द्वयम्
दिनान्येकत्र न वसेत्सप्तष्ट् वा परो जनः
अकालजेषु नृपतिर्विद्युद्गर्जितवृष्टिषु
स्न्ताकुड्यशिवाकाककपोतानां गिरस्तथा
पीतकारभरद्वाजपभिणां दक्षिणा गतिः
कृष्णं त्यक्त्वा प्रयाणे तु कृकलासेन वीक्षितः
हृतेक्षणं नेष्टमेवाव्यपत्ययं कपिऋक्षयोः
दृष्टमात्रेण यात्रायां व्यस्तं सर्वं प्रवेशने
प्रवेशे रोदनयुतः शवः शवप्रदस्तथा
अभ्यक्तवसास्थिचर्माङ्गारदारुणरोगिभिः