जीवं लग्नगते शुक्रे केन्द्रे वापि त्रिकोणगे
लग्नगे ज्ञे शुभे केन्द्रे धिष्ण्ये चोपकुले गतः
शुभि त्रिकोणे केन्द्रस्थे लाभे चन्द्रे ऽथवा रवी
स्वक्षेत्रगे शुभे कद्रे त्रिकोणोयगते गतः
इन्दौ स्वस्थे गुरौ केन्द्रे मन्त्रः सप्रणवो गतः
वर्गोत्तमगते शुक्रे ऽप्येवस्मिन्नेव लग्नगे
शुभे केन्द्रे त्रिकोणस्थे चन्द्रे वर्गोत्तमे गतः
मित्रभे ऽथ गुरौ केन्द्रे त्रिकोणस्थे ऽथ वा सिते
शुभकद्रत्रिकोणस्थे वर्गोत्तमगते गतः
ये नृपा यान्त्यरीञ्जेतुं तेषां योगैर्नृपाह्वयैः
बलक्षयपक्षदशमीमासीषे विजयाभिधा
निमित्तशकुनादिभ्यः प्रधानं हि मनोदयः
उत्सवोपनयोद्वाहप्रतिष्टाशौचसूतके
महिषोन्दुरयोर्युद्धे कलत्रकलहार्त्तवे
घृतान्नं तिलपिष्टान्नं मत्स्यान्नं घृतपायसम्
सज्जिका परमान्नं च काञ्जिक च पयो दधि
कुल्माषांश्च तिलान्नं च दधि क्षौद्रं घृतं पयः
शशमांसं च षाष्टिक्यं प्रियगुङ्कमपूपकम्
हविष्यं कृशरान्नं च मुद्गान्नं यवपिष्टिकम्
भुक्त्वा राजेभाश्वरथनरैर्याति जयत्यरीन्
प्रणम्य देवभूदेवानाशीर्वादैर्नृपो व्रजेत्
इन्द्रमैरावतारूढं शच्या सह विराजितम्
सप्तहस्तं सप्तजिह्वं षण्मुखं मेषवाहनम्
दण्डायुधं लोहितार्क्षं यमं महिषवाहनम्
खड्गचर्मधरं नीलं निरृतिं नखाहनम्
नागपाशधरं पीतवर्णं मकरवाहनम्
प्राणिनां प्राणरूपं तं द्विबाहुं दण्डपाणिकम्
अश्वारूढं कुंभपाणिं द्विबाहुं स्वर्णसन्निभम्
पिनाकिनं वृषारूढं गौरीपतिमनुत्तम्
अप्रयाणे स्वयं कार्या प्रेक्षया भूभुजस्तथा